________________
( २७५ )
वहां करणे ।।१।३४॥ वहेः करणे यः स्यात् । वा शकटम् ॥३४॥ वहेयंजनान्तलक्षणो ध्यण् कर्मणि प्राप्तस्तब्दाधनायार्थविशेषेऽस्य नियन्त्रणाय चेदमपि निपातनम् तथा चान्यत्र कर्मणि वाह्यभित्येव भवति ॥३४॥
नाम्नो वदः क्यच ।।१।३५॥ अनुपसर्गान्नाम्नः पराद्वदेः क्यप-यो स्याताम् । ब्रह्मोद्यम् । ब्रह्मवद्यम् । नाम्न इति किम् । वाद्यम् । अनुपसर्गादित्येव । प्रवाद्यम् ॥३५॥ ब्रह्मणो वदनमिति क्यपि य्वृति ब्रह्मोद्यम् ये तु ब्रह्मवद्यमिति । ककार: कित्कार्यार्थः कित्कार्यं गुणाभावो वृत्त्वं च । पकारः उत्तरत्र तागमार्थः इह फलाभावेऽप्यने तस्य फलसत्त्वेन, तत्र पुनरुच्चारणे गौरवाल्लाघवानुरोधेनेहैवोभयानुबन्धसहित उच्चारितः इति ॥३५॥
हत्याभूयं भावे ।।१।३६॥
अनुपसर्गान्नाम्नः परौ हत्याभूयौ भावे क्यबन्तौ साधू स्तः । ब्रह्महत्या । देवभूयं गतः । भाव इति किम् । श्वघात्या सा ॥३६॥ ब्रह्मणो वधः-ब्रह्महत्या। देवस्थ भावं गतः-देवभूयं गतः-देवत्वं गतः इत्यर्थः । भाव इति किमिति-ननु निपातनसामर्थ्यादेव भाव एव भविष्यतीति प्रश्नः कृतः । निपातनं हि घ्यणो बाधनार्थं तकारादेशवधानार्थं चावश्यकमिति तत्सामर्थ्येन भावार्थो वर्तु मशक्य इति भाव इत्यस्यावश्य