________________
( २७४ )
प्राप्ते, वदश्च “नाम्नो वदः०" ।५।१।३५॥ इति व क्यपि प्राप्तेऽर्थविशेषेषु यप्रत्ययस्य विधानाथं निपातनमिदम् । उक्तञ्च
धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च ।
अनुबन्धविकाराणां, रूढयर्थं च निपातनम् । । धातुसाधनकालानां नियमस्य अनुबन्धविकाराणां च प्रात्यर्थं रूढयर्थं च निपातनम् । यो धातुर्यत्रार्थे न दृष्टस्तत्र तत्र प्रयोगार्थं यस्मिन् साधने कारके यः प्रत्ययो न दष्टस्तत्र विधानार्थं यस्मिन् काले च यः प्रत्ययो दृष्टस्तत्रापि प्राप्त्यर्थम् यस्मिन् प्रत्यये योऽनुबन्धो न दृष्टस्तन्निमित्तककार्यप्राप्त्यर्थम्, अर्थविशेष रूढयथं च निपातनमिति । एतदुदाहरणानि यथाशास्त्रमुन्नेयानि । अत्र वदेर्यस्य पाक्षिकप्राप्तिसत्त्वेऽप्यर्थविशेषे तस्य नियमार्थं निपातनम् । “वृङश संभक्तो" वृधातोरनेन ये गूणे च वर्या उपेया चेत्तदा प्राप्तुं योग्येत्यर्थः। उपसर्या गौरिति-उपपूर्वात्सृधातोः अनेन य प्रत्यये गुणे च उपसर्या निपात्यते कदा ? ऋतुमती चेत् गर्भाधानार्थ वृषभेनोपगन्तुं योग्येति भावः अवधं गह्य मिति नपूर्वाद् वदेर्ये अवद्यमिति कदा गह्यं चेत्तदा गर्दा मवाच्यमित्यर्थः । “पणि व्यवहारस्तुत्योः" तत्र व्यवहारार्थेऽनेन यो निपात्यते पण्या गौः-विक्र येत्यर्थः ॥३२॥
स्वामिवैश्येऽर्यः ।।१।३३। अतः स्वामिवैश्ययोर्यः स्यात् । अर्यः स्वामी वैश्यो वा । आर्योऽन्यः ॥३३॥
प्रापणे च, चकाराद् गती। ऋवर्णान्तलक्षणो घ्यण प्राप्तस्तदपवादाय अर्थविशेषयोश्च नियन्त्रणाय निपातनमिदम् । ऋघातोरनेन ये गुणे च अर्यः । आर्योऽन्य इति अयं च शब्दो यथेच्छं श्रेष्ठे जनेऽभिगन्तव्यरूपमर्थमादाय प्रयुज्यते।
कर्तव्यमाचरन् काममकर्थव्यमनाचरन् ।
तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः ॥ इति वशिष्टस्मृत्या परिभाषित आर्यशब्दः । “महाकुलकुलीनार्यसभ्य- . सज्जनसाधवः" इति च कोशेन कुलीनेऽर्थे आर्यशब्दस्य शक्तिर्त्यवस्थापिता॥