________________
( २७३ )
एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् । आयाम्यम् ॥३०॥ मद्गद्धातुभ्यां व्यञ्जनान्तलक्षणस्य घ्यणो बाधनार्थं यमः पवर्गान्तत्वासिद्ध नियमार्थं वचनम् । अनुपसर्गादेव यथा स्यात् बहलवचनान्माद्यत्यम् नेनेति-मद्य करणेऽपि, नियम्यमिति च सोपसर्गादिति ॥३०॥
चरेराङस्त्वगुरौ ।५।१॥३१॥ अनुपसर्गाच्चरेराङ् पूर्वात्त्वगुरौ यः स्यात् । चर्यः । आचर्यो देशः । अगुराविति किम् । आचार्यः ॥३१॥ तुग्रहणात् पूर्वसूत्रात् 'अनुपसर्गात्' इत्यपि सम्बध्यते, आचार्य इति-- आचारेषु साधु, आचार्यते आंगमार्थाकाक्षिभिः शिष्यैः विनयादिमर्यादया सेव्यते इति वा आचार्यः। .
धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।। पञ्चमहाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः ।
सामायिकस्था धर्मोपदेशका गुरवो मताः॥ इत्यादिरीत्या विविधानि लक्षणानि । गरुशब्दो व्यापकः, आचार्यशब्दो • व्याप्यः यथा चागुरावित्यनुपादाने गुरावपि आचर्य इति स्यात् न त्वाचार्य इति ॥३१॥
वर्योपसर्यावधपण्यमुपेयर्तुमतीगर्दा विक्र ।।१॥३२॥ एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते । वर्या कन्या। उपसर्या गौः । अवयं गह्यम् । पण्या गौः ॥३२॥ वयेत्यादि-अत्र द्वयोः ऋवर्णान्तत्वेन पणेश्च व्यञ्जनान्तत्वेन ध्यणि