SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ( २७२ ) भविष्यतीति किमनेनेति वाच्यं बाहुलकस्यागतिकगतिरूपतया तदाश्रयणस्य यथासंभवं वर्जनीयत्वात् ॥ २६ ॥ तव्यानीयौ |५|१|२७| एतौ धातोः स्याताम् । कर्त्तव्यः । करणीयः ॥ २७॥ कर्तव्यः करणीय इति अत्र ध्य विषये वोत्सर्ग प्रवृत्तिः । " तत्साप्या० " | ३ | ३|२१| इति सूत्रेण कृत्यप्रत्ययाः सकर्मकात् कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति ||२७|| य एच्चातः | ५ | १|२८| स्वरान्ताद्धातोर्यः स्यात् । आत एच्च । चेयम् । नेयम् । देयम् । धेयम् ॥२८॥ ऋवर्णव्यञ्जनान्तात् ध्यणो विहितत्वात् परिशिष्टात् स्वरान्तात् धातोर्यः प्रत्ययो भवति ॥ २८॥ शकित किचतियतिशसिसहियजिभजिपवर्गात् । ५।१।२६। एभ्यः पवर्गान्ताच्च यः स्यात् । शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । यज्यम् । भज्यम् । तप्यम् । गम्यम् ॥ २६ ॥ ध्यणोऽपवादः । यजेः " त्यजयज - प्रवचः” | ४|१|११८ । इति प्रतिषेधात् भजेश्च बाहुलकाद् ध्यणपि याज्यम्, भाग्यम् ॥ २६ ॥ यमिमदिगदोऽनुपसर्गात् |५|१|३०|
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy