________________
( २७१ )
स्वादिभवति। मेयमन्यत् । संपूर्वान्नयतेहविषि समो दीर्घत्वं च सम्यग्नीयते होमार्थमग्निं प्रति तत् सान्नायं हविविशेषः अत्र। कर्मणि प्रत्ययः । अयमपि रूढिशब्दत्वाद्धविविशेषे वर्तते संनेयमन्यत् । निर्वाच्चिनोतेनिवासे आदिकत्व च । निकाय्यो निबासः निचेयमन्यत् ॥२४॥
परिचाय्योपचाय्यानाय्यसमाचित्यमग्नौं ।५।२२५॥
एतेऽग्नौ निपात्यन्ते । परिचाय्यः । उपचाय्यः । आनाय्यः । समूह्यः । चित्यो वा ऽग्निः ॥२५॥
पर्यु पपूर्वाच्चिनोतेय॑ण् आयादेशश्च, परिचीयत इति परिचाय्योऽग्निः । एवमुपचाय्यः । परिचयः, उपचेयोऽन्यः आपून्नियतेः कर्मणि . ध्यण आयादेशश्च । गार्हपत्यादानीयते इत्यानाय्यो दक्षिणाग्निः, दक्षिणाग्निः, आग्नेयोऽन्यः । अग्नयस्त्रयः श्रोतकर्मणि प्रसिद्धाः गार्हपत्यो दक्षिणाग्निराहवनीयश्च, तत्र गार्हपत्याग्निनित्यः स हि सर्वदा प्रज्वलितस्तिष्ठलि दक्षिणाग्निराहवनीयश्च यथोपयोगं गार्हपत्यादानीयते वृत्ते कर्माणि नियुत्तिस्तस्येत्यनित्यावेतो, समुह्यत इति समूह्यः । अन्यः संवाह्यः । समूद्य इत्यत्र कर्मणि व्यञ्जनान्तलक्षणो घ्यण तु सिद्ध एव केवलं वस्य ऊत्वं निपात्यते । चिनोतेः कर्मणि क्यप् तागभे चित्योऽग्निः, चेयोऽन्यः अत्र स्वरान्तलक्षणो यः उपात्यगुणश्च ।।२५।।
.. याज्या दान च ।।१।२६।
यजेः करणदानचि घ्यण् स्यात् । याज्या ॥२६॥ · दानमत्राग्नौ प्रक्षेपः, दानकाले ऋग् दानर्ग तरयाम् इज्यतेऽनयेति याज्या। घ्यणो धित्त्वात "क्तनिटश्चजो:." ।४।१।१११॥ इति प्राप्तम्य गस्य "त्यजयज०" ।४।४।११८। इतिनेन निषेधः । घ्यणः प्राप्तत्वेऽपि करणेऽर्थे निपातनम् । याज्या नाम ऋचो वाक्यसमुदायरूपा। ताभिर्ह यते । बच व्यञ्जनान्तलक्षणस्य घ्यणः बाहुलकाद् यथायोगमुचितेष्वर्थेषु प्रयोगों
१।११॥ इति प्राप्तम्य रंगस्य