________________
( २७० )
कलुरेबोच्यते, क्रतोः सोमसाध्यतया सोमस्य पीयमानत्वेन क्रतोरपि पीयमानत्वोपचारात् । समोमको यागः क्रतुरूच्यते । ससोमके यागे क्रतुशब्दस्य प्रयोगः साम्प्रदायिकःअद्यत्वे च सामान्यतो यागमात्रेऽपि क्रतुशब्दस्य प्रयोगो दृश्यते तन्मूलं चापरादिकोशानां तथाविधशक्तिग्राहकत्वम् । राजा सूयतेऽस्मिन राज्ञा वा सोतव्य इति-राजसूयः क्रतुः। राजा। लतात्मकःसोमःसूयते कण्ड्यतेऽस्मिन्निति-अधिकरणे राज्ञा सोतव्य अभिषवद्वारा निष्पादयितव्य इति कर्मणि राज्ञ एव राजसूययज्ञेऽधिकारात् “स्वाराज्यकामो राजा राज- . . सूयेन यजेत" इति श्रुतेः, उभयथा क्रतुरेव वाच्यः । एता: क्रतुबिशेषस्य संज्ञा ॥२२॥
प्रणाय्यो निष्कामासमते ।।१।२३। प्रान्नियो ध्यणायादेशौ स्यातां निष्कामेऽसंमते चार्थे । प्रणाय्यः शिष्यचौ रो वा ॥२३॥ विषयाभिलाषः काम उच्यते स निर्गतो यस्मात् असम्मतइत्यस्य प्रीतिविषयानहइ त्यर्थः। प्रणाय्योऽतेवासी विषयेष्वनभिलाष इत्यर्थः । प्रणीयते इति कर्मणि यप्रत्तयः प्रणाय्यः चौरः सर्वलोकासम्मतं इत्यर्थः । प्रणेयोऽन्यः ॥२३॥
धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्मानहविनिवासे . ।।१।२४।
एते ऋगादिषु यथासङ्ख्यं ध्यणन्ता निपात्यन्ते । धाय्या ऋक् । पाय्यं मानम् । सान्नाय्यं हविः । निकाय्यो निवास ॥२४॥ घीयते समिदग्नावनयेति “य एच्चातः" ।५।१।२८। इति ये करणे धाय्या ऋक्, यद्यप्यनया व्युत्पत्त्या याभिः ऋम्भिरग्नौ समित्प्रक्षिप्यते ताः सर्वा अपि धाय्याशब्देन व्यवहर्तव्यतया प्राप्नुवन्ति-तथापि रूढिशब्दत्वा
धाय्याशब्देन काश्चिदेब ऋच उच्यन्ते। अन्यत्र धेया। मीयते येन तन्मानम्। मीयते येनेति इति करणे घ्यणि पाय्यं मानम् । निपातनादापिद