________________
( २६६ )
पूर्वकस्टौवोदाहरणं दत्तम् । आपूर्वान्नमे: आनाम्यमिति डिपेः कुटादित्वाद् ये गुणो न लभ्यत इति ध्यण विधीयते ॥२०॥
वाऽऽधारेऽमावास्या ।५।१।२१॥ अमापूर्वाद्वसतेराधारे ध्यण् धातोर्वा ह्रस्वश्च निपान्त्यते । अमावस्या । अमावास्या ॥२१॥ अमाशब्दः सहाथैः सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या यद्यपि सूर्याचन्द्रमसावेकत्र कदापि न वर्तेते इति योगार्थासम्भवः तथापि अनेन रूढया तिथिविशे उच्यते-एवम्भूता कृष्णपक्षीया पञ्चदशी तिथिरित्यर्थः ननु ध्यणं कृत्वा पक्षे ह्रस्वनिपातनायेक्षाया वरं विकल्पेन यविधानं, पक्षे च व्यञ्जनान्तलक्षणो ध्यणेव बाहलकादाधारे भविष्यतीति पाक्षिकह्रस्वनिपातनमनुचितमिति चेत्सत्यं पक्षे यमकृत्वा ह्रस्वनिपातनम् "अश्चामावस्यावाः" इत्यत्रैकदेशविकृतस्यानन्यत्वादमावास्याशब्दस्यापि ग्रहणार्थम्-यदि यो विधीयते तर्हि यान्तस्य शब्दान्तरत्वेन अमावास्पाशब्देन ग्रहणं न स्यात् पाक्षिकह्रस्वनिपातने च शब्दान्तरत्वाभावेन किञ्चिद् विकृतेऽपि “एकदेशविकृतमनन्यवत्" इति न्यायेनोभयो हणमिति भावः ॥२१॥
संचाय्यकुण्डपाय्यराजसूयं क्रतो ।।१।२२।
एते क्रतावर्थे घ्यणन्ता निपात्यन्ते । संचाय्यः। कुण्डपाय्यः । राजसूयः ऋतु ॥२२॥ संचाय्येत्यादि-आधारे कर्मणि वा निपातनादेवादेशदीर्घत्वे अपि भवतः । संचीयते सोमोऽस्मिन् संत्रीयते वाऽसाविति संचाय्यः क्रतुः संचेयोऽन्यः सोमो नाम लतात्मकः ओषधिविशेषः स एकत्रीक्रियते यत्रंत्यधिकरणे अथवा संचीयतेऽसाविति कर्मणि एवं कुण्डैः कुण्डाकारैः चमसैः पीयते सोमः सोमलतारसः यत्र, कुण्ड: पीयत इति वा कर्मण्यपि यत्प्रयये