________________
.( २६८ )
वकमि आवश्यकम्, यद्वा निश्ययार्थे 'अवश्यम्' इत्यव्ययं ततो भावे चोरादेः ।७।२।७३। सूत्रादकनि 'कृत्येऽवश्यमो लुक् ।३।२।१३८ सूत्रात् मकारलोपे, नित्वात् उभयत्र वृद्धिः। अवश्यपाव्यमिति-अनावश्यंशब्दप्रयोगस्तु विशेषेण प्रकटनार्थं क्रियते यथा 'द्वौ ब्राह्मणौ' इति । वाह्मणावित्यत्र विहितेन द्विवचनेनैवे द्वित्वार्थस्योक्तत्वेपि स्पष्टतया द्वित्वंप्रतिपादनाय यथा 'द्वौ' इति प्रयुज्यते तथाऽत्रापि अवश्यंशब्दप्रयोगः । अथवा 'व्यतिलुनते' इत्यत्रात्मनेपदेनापि क्रियाव्यतिहारे द्योतिते व्यतिशब्दस्य, . प्रयोगो भवति तथाऽत्रापि ध्यणाऽवश्यंभावे द्योतितेपि स्पष्टतता प्रकटनार्थमवश्यं शब्दप्रयोगः ।नन्ववश्यंशव्दस्योपपदत्वाभावेन च कथमत्र समास इति घेत् मयूरव्यसकादित्वासमासः।।१८॥
आसुयुवपि-रपिलपित्रपिडिपिदभिवम्यानमः ।।१।। आङ्पूर्वाभ्यां सुग्नम्म्यां यौत्यादेश्च ध्यण् स्यात् । आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, अपत्राप्यम्, डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ॥२०॥
यापवादी-आद्ययोः स्वरान्तलक्षणोऽन्येषां च पवर्गान्तलक्षणो यो घ्यणपवादः 'प्राप्तस्तद्वाधनार्थमिदं सूत्रमिति भावः । अत्राभिषवार्थ-सुनोतेरेव ग्रहणम् नान्यस्य एवं मिश्रणार्थकस्य यौतेरेव ग्रहणं न तु बन्धनार्थस्य "युग्श्" इत्यस्य 'निरनुबन्धग्रहणे न सानुबन्ध-कस्य" इति न्यायात् । “सु' प्रसवेश्वययोः 'सुक् प्रसवैश्वर्ययोः "षुग्ट् अभिषवे" इति तत्रान्तिमादापूर्वादनेन घ्यणि वृद्धावावादेशे च आसाव्यम् । एवं “युक् मिश्रणे" इत्यस्य याव्यम् “टुवपी बीजसन्ताने" अतो ध्यणि उपान्त्यवृद्धौ वाप्यम् । एवं “रप लप व्यक्त वचने" इत्येतयोः राप्यम्, लाप्यम् “त्रपौषि लज्जायाम्" अपपूर्वस्य त्रपधातोः अपत्राप्यम् । डिपत् क्षेपे” इत्यस्य डेप्यम् ।गणे पाठाभावात् दभिर्हि सौत्रो ग्राह्यः दभिः सौत्रो बन्धने वर्तते । दम्भूट दम्भे इत्यस्य तु दम्भ्यमिति भवति । आङ्पूर्वस्य "चम् अदने” इत्यस्य आचाम्यम् यद्यपि नात्रोपसर्ग पूर्वकस्यैव ग्रहणमपि तु सामान्यतः सोपसर्गस्यानुपसर्गस्य च तथापि अनुपसर्गस्य ये ध्यणि च न विशेषो , 'मोऽकमि०" ।४।३।५५॥ इति वृद्धेः निषेधात् ततश्चा