________________
( २६६ )
भीमादयोऽपादाने ।।१।१४॥
एतेऽपादाने स्युः। भीमः, भयानकः ।।१४॥ त्रिभीक् भये बिभेत्स्यमादिति भियः षोन्तश्च वा। उणा०३४४। इति किति मप्रत्यये-भीमः। बिभेत्यस्मादिति 'शी० उणा० ७१ इत्यानके गुणे च भयानकः ॥ उणादिप्रत्ययान्ताः एते 'संप्रदानाच्चा० ।५।१।१५ सूत्रात निषे. घेनाप्राप्ता निपात्यन्ते ॥ १४ ॥
संप्रदानाच्चान्यत्रोणादयः ।।१।१५॥ संप्रदानादपादानाच्चान्यत्रार्थे उणादयः स्युः । कारुः, कषिः ॥१५॥ कृत्वात्कर्मण्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते। करोतीति-कारुः । अत्र 'कृ-वा० । उणा० १) इत्यनेन उप्रत्ययः । कषितोऽसाविति कर्मणि कषिः। 'कृ-श । उणा० ६१९ इत्यनेन इप्रत्ययः ।।१५।।
..
असरूपोऽपवादे वोत्सर्गः प्राक् क्त: ।।१।१६।
इतः सूत्रादाराम्य स्त्रियां क्तिरित्यतः प्राक योऽपवाद-स्तद्विषयेऽपवादेनाऽ-समान रूप औत्सर्गिकः प्रत्ययो वा स्यात् । अबश्यलाव्यम्, अवश्यलवितव्यम् । असरूप इति किम् ? ध्यणि यो न स्यात् । कार्यम् । प्राक्तेरिति किम् ? कृतिः, चिकीर्षा ॥१६॥ अपवादेन सह अप्समान रूपः यः सदृशो न भवति स उत्सर्गप्रत्ययः अपवादविषये वा भवतीति भावार्थः । यो विशेषानभिधानेन विधीयते स उत्सर्गप्रत्ययः, यश्च विशेषस्वरूपेण नियतविषयेण वा विधीयते सोऽपवादप्रत्ययः । अवश्यलाध्यमिति–'लूग्श् छेदने' धातुः, अवश्यं भावे द्योत्ये भावे कर्मणि वा 'उवर्णादावश्यके ।५।१।१६। सूत्रात् अपवादभूते .ध्यणि वृद्धौ ‘य्यक्ये । १।२।२५ सूत्रादौत आवादेशे मयूरव्यंसकादित्वाासमासे 'कृत्ये