SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ( २६५ ) तोऽसौ। भावे तु आसितं तैः । पिबेति निर्देशात् 'पां पाने' इत्यस्यैव पाधातो हणम्, पिबन्ति स्मेति कर्तरि क्त पीता पयः । पीयते स्मेति कर्मणि क्त पीतं पयः। भुञ्जते स्मेति कर्तरिक्त भुक्तास्ते। भुज्यते स्मेति कर्मणि इवं तैर्भुक्तम् । सकर्मका अप्यविवक्षितकर्माणोऽकर्मका भवन्तीति अविवक्षितकर्मणामपीह अकर्मकशब्देन ग्रहणम् । अविवक्षितकर्मभ्वो नेच्छन्त्येके ॥११॥ अद्यर्थाच्चाधारे ॥५॥॥१२॥ आहारार्थाद् धातोर्गत्यर्थादेश्च यः क्तः स आधारे वा स्यात् । इदमेषां जग्धम्, तैर्जग्धम् । इदं तेषां यातम्, तैर्यातम् । इदमेषां शयितम्, तैः शयितम् । इदं गवां पीतम्, गोभिः पीतम् । इदं तेषां भुक्तम्, इद तैर्भुक्तम् ॥१२॥ अदेरर्थ इव अर्थो यस्य स अद्यर्थस्तस्मात् आहार्थादित्यर्थः । गत्यर्थांदेश्चेति 'गत्यर्था० ५।१।११। इति 'अदंक भक्षणे' अद्यते स्मास्मिन्नित्याधारे क्त इदमेषां जग्धमिति। एषामिदं भोजनस्थलमित्यर्थः । पक्षे अद्यते स्मेति कर्मणि क्त तैर्जग्धमिति । 'यपि चादो जग्ध ।४।४।१६ सूत्रेण जग्धादेशः। शेतेऽस्मिन्निति इदमेषां शयितम् । पिबत्यस्मिमिन्नति-इदं गवां पीतम् । भुङ्क्तेऽस्मिन्निति-इडं तेषां भुक्तम् ॥१२॥ क्त्वातुमम् भावे ।।१।१३। एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम् । कारं कारं याति ॥१३॥ सूत्र भावे इति बननात् कादि कारकं निवृत्तम् । कारकनिवृत्तौ सत्यां नधा इत्यपि निवृत्तम् । पूर्व करणमिति 'प्राक्काले ।५।४।४७ सूत्रात् क्त्वि कृत्वा । क्रियायां क्रियार्थायां तुम्०।५।३।१२। सूत्रात् तुमि कतुं याति ।अभीक्ष्णं करणं पूर्वम् ‘रुणम् चाभीक्ष्ण्ये ।।४।४८ सूत्रात् खणमि 'भृशा०1७४।७३। सूत्रात् च.कारंकारं याति ।।१३।।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy