________________
( २६५ )
तोऽसौ। भावे तु आसितं तैः । पिबेति निर्देशात् 'पां पाने' इत्यस्यैव पाधातो हणम्, पिबन्ति स्मेति कर्तरि क्त पीता पयः । पीयते स्मेति कर्मणि क्त पीतं पयः। भुञ्जते स्मेति कर्तरिक्त भुक्तास्ते। भुज्यते स्मेति कर्मणि इवं तैर्भुक्तम् । सकर्मका अप्यविवक्षितकर्माणोऽकर्मका भवन्तीति अविवक्षितकर्मणामपीह अकर्मकशब्देन ग्रहणम् । अविवक्षितकर्मभ्वो नेच्छन्त्येके ॥११॥
अद्यर्थाच्चाधारे ॥५॥॥१२॥
आहारार्थाद् धातोर्गत्यर्थादेश्च यः क्तः स आधारे वा स्यात् । इदमेषां जग्धम्, तैर्जग्धम् । इदं तेषां यातम्, तैर्यातम् । इदमेषां शयितम्, तैः शयितम् । इदं गवां पीतम्, गोभिः पीतम् । इदं तेषां भुक्तम्, इद तैर्भुक्तम् ॥१२॥ अदेरर्थ इव अर्थो यस्य स अद्यर्थस्तस्मात् आहार्थादित्यर्थः । गत्यर्थांदेश्चेति 'गत्यर्था० ५।१।११। इति 'अदंक भक्षणे' अद्यते स्मास्मिन्नित्याधारे क्त इदमेषां जग्धमिति। एषामिदं भोजनस्थलमित्यर्थः । पक्षे अद्यते स्मेति कर्मणि क्त तैर्जग्धमिति । 'यपि चादो जग्ध ।४।४।१६ सूत्रेण जग्धादेशः। शेतेऽस्मिन्निति इदमेषां शयितम् । पिबत्यस्मिमिन्नति-इदं गवां पीतम् । भुङ्क्तेऽस्मिन्निति-इडं तेषां भुक्तम् ॥१२॥
क्त्वातुमम् भावे ।।१।१३। एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम् । कारं कारं याति ॥१३॥ सूत्र भावे इति बननात् कादि कारकं निवृत्तम् । कारकनिवृत्तौ सत्यां नधा इत्यपि निवृत्तम् । पूर्व करणमिति 'प्राक्काले ।५।४।४७ सूत्रात् क्त्वि कृत्वा । क्रियायां क्रियार्थायां तुम्०।५।३।१२। सूत्रात् तुमि कतुं याति ।अभीक्ष्णं करणं पूर्वम् ‘रुणम् चाभीक्ष्ण्ये ।।४।४८ सूत्रात् खणमि 'भृशा०1७४।७३। सूत्रात् च.कारंकारं याति ।।१३।।