________________
( २६४ )
विक्लितिः व्यापारश्च तदनुकूलो यत्नः उभौ पृथक्, पृथक् तिष्ठतः, फलमोदने, व्यापारश्च कर्तरि देवदत्ते, ओदनं पचति देवदत्त इत्यत्र । भूधातुरकर्मकः, पचधातुः सकर्मकः । उपसर्गेण धात्वर्थो भिद्यते अत एवाकर्मका अपि उपसर्गवशाद् सकर्मका भवन्ति । उक्तश्चोपसर्गवशाद् धात्वर्थभेदः यथा
उपसर्गेण बलादन्यत्र नीयते ।
प्रहाराहारसंहार विहारपरिहारवत् ॥ यथा भूधातोरपि 'चैत्र आनन्दमनुभवति' इत्यत्रानूपसर्गवशात्सकर्मकत्वम् ॥६॥
आरम्भे ।।१।१०। आरम्भार्थाद् धातो तादौ यः क्तो विहितः स भर्तरि वा स्यात् । प्रकृताः कटं ते, प्रकृतः कटस्तैः । १०॥ आदिशब्दात् वर्तमानाभविष्यत्योः परिग्रहः 'ज्ञानेच्छा० ।५।२।६२। 'कषोऽनिट: ।५।३।३। इत्याक्सूित्रेभ्यो वर्तमानाभविष्यदर्थे तो विधीयते । यथा ज्ञातुमारभते:=प्रज्ञातः । कषिष्यतीति=कष्टम् । प्रकुर्वन्ति कटं ते= प्रकृताः कटं ते । अत्र प्रशब्दः आरम्भमादिकियां द्योतयति । पक्षे कर्मणि प्रकृतः कटस्तैः ॥१०॥
गत्यक्रिर्मक पिबभुजेः ।।१।११। भूतम्दौ यः क्तो विहितः स एभ्यः कर्तरि वा स्यात् । गतोऽसो प्रामम्, गतोऽसो तैः । आसितोऽसौ, आसितं तैः पीताः पयः, पीतं पयः । भुक्तास्ते, इदं तैभुक्तम् ॥११॥ गच्छति स्मेति कर्तरि क्त गतोऽसौ ग्रामम् । गम्यते स्मेति कर्मणि क्त गतोऽसौ तैः। आसिक उपवेशने आस्ते स्मेति कर्तरिक्त इटि च आसि