________________
( २६२ )
'तत्साप्या० ॥३।३।२१। सूत्रात्कृत्यप्रत्ययानां भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् । 'भूगायतिरमयतिभ्यो यो यः प्रत्ययः यश्च जनेरःङ पूर्वाभ्यों च पतिप्लुभ्यां ध्यण् स कर्तरि वा निपात्यन्ते । भवत्यसाविति-भव्यः “ययक्ये ।१।२।२५। सूत्रादवादेशः । पक्षे भावे ये भव्यम् । गायति इति कर्तरि ये आकारस्य एकारे गेयः साम्नाम् । पक्षे गीयन्ते इति कर्मणि ये गेयानि सामानि । जायतेऽसाविति कर्तरि घ्यणि 'न जन० ।४।३।५४। सत्राद् वृद्धिनिषेधे जन्यः, पक्षे भावे ऋवर्ण०।४।१।६७। इति घ्यणि जन्यम् । रमयतीति कर्तरि घ्यणि णिलोपे रम्यः, पक्ष रम्यते इति भावे 'शकितकि० ।५।१।२६। सूत्रेण यप्रत्यये रम्यम् । आपततीति कर्तरि उपान्त्यवृद्धी आपात्यः । पक्ष भावे-आपात्यम् । आप्लवते इति कर्तरि ध्यणि आप्लाव्यः, पक्ष भावे अवश्यमाप्लूयते इति ‘उवर्णादा० ।५।१।१६। ... सूत्रेण घ्यण, वृद्धिः, 'य्यक्ये । १।२।२५। सूत्रण आवादेशः ॥७॥
प्रवचनीयादयः ।।१।।
एतेऽनीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते । प्रवचनीयो गुरुः . शास्त्रस्य । प्रवचनीयं गुरुणा शास्त्रम् । उपस्थानीयः शिष्यो गुरोः। उपस्थानीयः शिष्येण गुरुः ॥८॥ प्रवक्ति, प्रबले वा प्रवचनीयः गुरुः शास्त्रस्य । उपतिष्ठते इति उपस्थानीयः शिष्यो गुरोः । अत्र अकर्मकस्यापि. स्थाधातोरूपसर्गवशात्सकर्मकत्वं शेयम् । एवं ज्ञानामावृणोति ज्ञानोवरणीयमित्यादि अनेन निपातनाद् द्रष्टव्यम् ॥८॥
श्लिषशीस्थासवसजनरुहज भजेः क्तः ।।१६। एभ्यक्तो यो विहितः स कर्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः । आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरु शिष्यः । अतिशयितो. गुरुः शिष्यैः ।उपस्थितो गुरु शिष्यः। उपस्थितो गुरुः शिष्यैः । उपासिता गुरुः शिष्यैः । उपासिता गुरु ते, उपासितो गुरुस्तै, अनूषिता