________________
( २६१ )
विधानाभावात् केलिमोऽत एव वचनाद् ज्ञातव्य: । 'विहाविशा, उणा० ३५४ इति केलिमस्तु नियतधातुविषयः, अयं तु सर्वधातुविषयः । कृष्टे कृष्ट प्रदेशे स्वमेव पच्यन्ते फलन्ति ते कृष्टपच्याः शालयः ॥ ४ ॥
संगतेऽजर्यम् ||१||
८
संगमनं संगतम्, तस्मिन् कर्तरि नञपूर्वात् ज षो यो निपात्यते । अजर्यम् आर्यसंगतम् । संगत इति किम् ? अजरः पटः ||५||
गत्यर्थाद् धातोः कर्तरि कर्मणि च क्तप्रत्यस्य विधीयमानतया तादृशप्रत्ययान्तस्य संगतशब्दस्य ग्रहणं भा भूदित्येतदर्थं क्तप्रत्ययस्य भावार्थत्वं स्फीरयति संगमनं संगत मिति । एतत् यत्र कर्तृत्वेन विवक्ष्यते तत्र इति भावः । न जीर्यतीति- अजर्यमार्य संगतत्ः अविनश्वर आर्यसंगम इत्यर्थः । तृज़ादीनामपवाद: । क्रयादिकस्य नृ शो निपातनमदृष्टमत नृ षच् जरसीति दिवादि ग्रहणात् . न जीर्यतीति साधनिका । अजरः पटः- न जीर्यती
त्यच् ।।५।।
रुच्या व्यथ्यवास्तव्यम् | ५|१|६|
एते कर्तरि निपात्यन्ते । रुच्यः, अव्यथ्यः वास्तव्यः ॥ ६ ॥
रोचते इति रुच्यः मोदकः । न व्यथते पीडा भयं वा नोत्पादयति स अन्यथो मुनिः । वसतीति तव्यणि णित्वादुपान्त्यवृद्धौ वास्तव्यः रोचतेः, नपूर्वाद व्यथतेश्च क्यप् प्रत्ययो निपात्यते, वसतेश्च तव्यण् निपात्यते ||६||
भव्यगेयजन्यरस्यापात्याप्लाव्यं नवा | ५|१|७|
एते कर्तरि वा निपात्यन्ते । भव्यः, गेयः साम्नाम्, जन्यः, रुम्यः, आपात्यः, आप्लाव्यः । पक्षे भव्यम्, गेयानि सामानि जम्यम्, रम्यम्, आपत्यम्, आप्लाव्यम् ॥७॥