________________
( २६० )
एषु क्वचिदन्यदेवेति तृतीयबाहुलकाभिप्रायेण सूत्रमिदं व्याचष्टे कृन्निर्दिष्टार्थादन्यत्रापोति । क्वचिदुपपदप्रकृतीनामपि व्यभिचारः यथाप्रयोग- . मूहनीयः । इह तु अर्थस्य व्यभिचारं दर्शयति पादाभ्यां ह्रियते इति पादहारकः ‘णकतृचौ ।५।१।४८ सूत्रात् णकः, 'कारकं कृता ।३।११६८। सूत्रात्समासः । कर्तरि ।५।१।३। सत्रात्कर्तरि विधीयमानो ऽपि णकप्रत्ययः कर्मणि भवति । मुह्यतेऽनेनात्मेति-मोहनीयं कर्म । 'मुहीच वैचित्त्ये' बैचित्त्यमविवेकः, अह्यति सदसद्विकलो भवत्यात्मा अनेनेति 'तव्यानीयो. . ।५।१।२७। सूत्रादनीयप्रत्ययः । ते कृत्याः ।५।१।४७। सत्रादनीयप्रत्ययस्य कृत्यसंज्ञायां 'तत्साप्याना० ।३।३।२१॥ सत्रात्प्रत्ययः सकर्मकात्कर्मणि अकर्मकाच्च भावे भवति । सत्यप्येवं वाहलकात् मोहनीयमित्यत्र करणेऽ नीयप्रत्ययो भवति । संप्रदीयतेऽस्मा इति-संप्रदानम् अत्र बाहुलकारसंप्रदाऽ नट्प्रत्ययो भवति ।।२।।
कर्तरि ।।१।।
कृदर्थविशेषोक्ति विना कर्तरि स्यात् । कर्ता ॥३॥ 'अनिर्दिष्टार्थप्रत्ययस्य स्वार्थे विधानमिति सामान्यनियमात् धातोः स्वार्थे . भावे क्रियायां मा भूदिति तेषामर्थनिर्देशार्थमिदं सूत्रम् ॥३॥
व्याप्ये घुरकेलिमकृष्टपच्यम् ।।१।४। धुरकेलिमौ प्रत्ययौ कृष्टपच्यश्च व्याण्ये कर्तरि स्युः भङ्ग रं काष्टम् । पचेलिमा भाषाः । कृष्टपच्याः शालयः ॥४॥ व्याप्ये कर्तरीति-व्याप्यं कर्मैव यत्र कर्ता, यत्र कर्मैव सौकर्यादिना कर्तृत्वेन विवक्ष्यते तत्रेति भावः । पूर्वसूत्रेणानिर्दिष्टानां प्रत्ययानां कर्तरि विधानात् घुरादेरपि तथाभूतत्वात्कर्तरि विहितत्वमाशङ्क्यानेन सूत्रेण तेषामर्थनिर्देशः कृतः । भनक्ति काष्ठं चैत्रः, स एवं विवक्षति, नाहं भनज्मि, किन्तु भख्यते स्वयमेव काष्ठम् ‘भजिभासि० ।५।२।७४ सूत्रेण घुरप्रत्ययः । पच्यन्ते स्वयमेवेति कर्मकर्तरि केलिमप्रत्ययः । केलिमस्य सूत्रान्तरेण