________________
अथ पञ्चमोऽध्यायः
आ तुमो त्यादिः कृत् |५|१|१|
धातोर्विधीयमानस्त्यादिवर्जो वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्यादिरिति किम् ? प्रणिस्ते ॥१॥ सूत्रे प्रकृतेरनिर्दिष्टतया प्रत्ययस्य नियमतः प्रकृतिसापेक्षत्वात् कृतां प्रकृति निर्दिशति - धातोरिति कृत्सूत्रे चतुर्थपादप्रान्ते शिकष० | ५|४|१०| सूत्रोक्तं तुमभिव्याप्य तुम्प्रत्ययं यावत् कृत्संज्ञा । कृत्संज्ञात्वात् प्रनिदितुम्, प्रणिदितुमित्यत्र 'निसंनक्षनिन्दः कृति वा | २| ३ | ४ | सूत्रेण णत्वं सिद्धमन्यथा 'अदुरुप० | २|३|७७| सूत्रेण नित्यं णत्वं स्यात् । घनघात्य इति – 'हनंक हिंसागत्योः' घनेन हन्यते इति 'ऋवर्णव्यञ्जनाद् ध्यण् |५|१|१७| सूत्राद् घ्यण्, 'ञ्णितिं घात्' |४ | ३ | १०० | सूत्राद् हनो घातादेशः, 'कारकं कृता |३|१|६८ | सूत्रात्समासः । प्रणिस्ते इति - 'णिसुकि चुम्बने ' इति प्रपूर्वस्य निस्धातोस्ते प्रत्यये णोपदेशत्वात् 'अदुरुपसर्गा० | २|३|७७| सूत्रात् णत्वम् । अत्र तेप्रत्ययस्य कृत्संज्ञायां 'निस निक्ष० | २ | ३ | ४ | सूत्रात् विकल्पेन . णत्वापत्ते रिति भावः ॥ १॥
बहुलम् |५|१|२|
कृन्निदिष्टार्थादन्यत्रापि बहुलं स्यात् । पादहारकः, मोहनीयं
कर्म, संप्रदानम् ॥२॥
अधिकारोऽयम् । सर्वेषां कृत्प्रत्ययानां बाहुलकेन विधानार्थमिदमधिकार सूत्रं क्रियते । बाहुलकं चतुर्धोक्त प्राचीनैः
-
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विविधानं बहुधा समीक्ष्य, चातुर्विधं बाहुलकं वदन्ति ॥