________________
( २५० )
एषां शे परे स्वरान्नोऽतः स्यात् । मुञ्चति, पिशति, तुम्फति, दृम्फति, गुम्फति, शुम्भति, उम्भति ॥६६॥ मृच्लुती मोक्षणे, षिचीत्, क्षरणे, विद्लुती लाभे, लुप्लुती छेदने, लिपीत् उपदेहे, कृतत् छेदने, चिदंत् परिद्याते, पिशत् अवयवे इति मुचादिगणः । तफ तुम्फत् तृप्तौ यथासंख्यं नकारवजितः, नकारयुक्तः एवमग्रेऽपि । हफ दृम्फत् उन्क्लेशे । गुफ गुम्फत् ग्रन्थने । शुभ शुम्भत् शोभार्थे । उभ उम्भत् पूरणे एते नकाग्युक्ताः, नकारवजिताः द्विविधाः । नम्फादीनां शे परे नस्य 'नो व्यञ्जन० ।४।४।४५। सूत्रेण नलोपः, तृफादीनां तु अनेन नस्य विधानम, विधानबलाच्च न नस्य लोपः इति तुफति, तृम्फति इत्यादि द्वैरूप्यं सिद्धम् ॥६६॥
जभः स्वरे ।४।४।१००। जभेः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् । ८.म्भः ॥१०॥ जभ. मैथुने, जभुङ्, जभैङ् गात्रबिनामे । जम्भ-इत्यत्र अच्, भावकरणादौ पत्र वा ॥१०॥
रघ इटि तु परोक्षायामेव ।४।४।१०१। रधः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् इडादौ तु परोक्षायामेव । रन्धः । ररन्धिव। परोक्षायामेवेति किम् ? रधिता ॥१०१॥ पूर्वसूत्रात् स्वराधिकारे सत्यपि यदत्र 'रध इटि तु ।४।४।१०१॥ सूत्रे इड्ग्रहणं करोति तस्मात् इड्ग्रहणबलात् नियमः सिद्धः । सूत्रे एवकारस्तु विपरीतनियमनिरासार्थः तेन 'ररन्ध' इत्यत्र न नियमः ॥१०१॥
रभोऽपरोक्षाशवि ।४।४।१०२॥