________________
( २४७ )
रसट्प्रत्ययस्य एकसकारोऽनुबन्धः एकसकाररूप एव प्रत्ययः, द्विसकारपाठस्तु समचिस्करत्' इत्यादी षत्वबाधनार्थः । संस्करोतीति- सम्पूर्वः कृग्, ततः 'सं-परेः कृगः स्सट् ।४।४।११। सूत्रेण एकसकार एव सेट, 'स्सटि समः ।१।३।१२। सूत्रेणानुस्वारः पूर्वस्य तथा द्वितीयसकारः क्रियते । कस्यादिः कादिय॑ञ्जनमिति व्युत्पत्त्याऽनुस्वारस्य व्यजनसंज्ञत्वात् 'धुटो धुटि स्वे वा ।१।३।४८। सत्रेण विकल्पेन पूर्वसकारस्य लोपः । संस्करोति भूषयतीत्यर्थः । परिष्करोतीत्यत्र 'असोडसि० ।।३।४८। सूत्रेण षकारः । 'पूर्वं धातुरुपसर्गेण सम्बध्यते पश्चात्साधनेन' इति न्यायात् द्विवचनादडागमाच्च पूर्वमेवस्सड् भवति तेन संचस्कार, समचिस्करदित्यादि सिध्यति अन्यथा समां परिणा च कृगो व्यवधानं स्यात् ॥१॥
उपाद् भूषासमबायप्रतियत्नदिकारवाक्याऽध्याहारे। ।४।४ाई। . उपात्परस्य कृगो भूषादिष्वर्थेषु आदिः स्सट् स्यात् । कन्यामुपस्करोति, तत्र ,न उपस्कृतम्, एधोदकमुपस्कुरुते, उपस्कृतं भुङ्क्ते सोपस्कार सूत्रम् ॥१२॥ .
भूषा=अलङ्कारः । कन्यामुपस्करोति भूषयतीत्यर्थः । समवायः समुदायः । तत्र नः उपस्कृतम् समुदितमित्यर्थः, वस्तनामेकत्र मेलनमिति यावत् । प्रतियत्नः पुनयंत्नः, केशादेः सौगन्ध्यादिसम्बन्धविधये, वृक्षादेः सेकादिना वृद्ध्यै अभिमतावस्थायोजनं प्रतियत्नः । एधोदकमुपस्कुरुतेतत्र प्रतियतते इत्यर्थः । प्रकृतेरन्यथाभावो विकारः । उपस्कृतं भुङक्त विकृतमित्यर्थः । गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानम्वाक्याध्याहरः । सोपस्कार सूत्रम्-सवाक्याध्याहारमित्यर्थः ।।१२।। ..
किरो लवने ।४।४।६३। उपात्किरतेस्सडादिः स्यात्, लवनविषयार्थश्चेत् । उपस्कौर्य
....