________________
२४५ )
धूग्सुस्तोः परस्मै | ४|४|८५।
एभ्यः परस्मैपदे सिच् आदिरिट् स्यात् अधावीत्, असावीत, अस्तावीत् । परस्मै इति किम् ? अधोष्ट ॥८५॥
1
धूगो विकल्पे सुस्तुभ्यां च प्रतिषेधे प्राप्ते वचनम् । सु प्रसवैश्वर्ययोः षु'गुट् अभिवे इत्युभयोर्ग्रहणम् सु प्रसवैश्वर्ययौरित्यस्य तु कर्तयोत्मनेपदं न भवति ॥ ८५ ॥
यमिरमिनस्यातः सोऽन्तश्च | ४|४|८६ |
एभ्थ आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात् । एषां च सन्तः । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासिष्टाम् ॥८६॥
अन्तग्रहणात् ‘षष्ठ्यान्त्यस्य | ७|४|१०६ | सूत्रं न प्रवर्तते । अयंसीदत्यादि-यम् रम् नम् अत्र अद्यतनी दि' स सिजस्ते ० १४ | ३ ६५ | सुत्रात् ईत्, तदनन्तरं मिरमि | ४|४|८६ | सूत्रात् इट् इटः पश्चाद् धातोः परतः सोऽन्तः, 'इट ईति |४| ३ |७१ | सुत्रात् सिज्लोपः । अयासिष्टा-मितिअत्र ताम्प्रत्ययः, सिच्, इट् धातु सोऽन्तः । अथ दिस्योः परयोः सिच आदाबिविधानस्य किं फलमिति चेदवोत्तरम् एभ्यो दिस्योः सिच इविधानस्य व्यञ्जनानामनिटि | ४ | ३ | ४५ | सूत्राद् प्राप्ताया वृद्धयाः प्रतिषेधः प्रयोजनम् ||८६||
ईशीड : सेध्वेस्वध्वभोः । ४ । ४ । ८७ ।
आभ्यां वर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चादिरित् स्यात् । ईशिषे, ईशिध्वे ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्ये । ईवि । ईदम् ॥८७॥
परोक्षासेध्वयोरामा भाव्यमिति वर्तमानासेध्वयोर्ग्रहणम् । सूत्रे समुदाय -