________________
( २४४ )
वचनम्, एभ्य एव क्वसोरादिरिट भवति । नान्येभ्यः इति || २ ||
गमहनविद्लविशदृशो वा । ४ । ४ । ८३ ।
एभ्यः परस्य क्वसोरादिरिट वा स्यात् । जग्मिवान् । जगन्यान् । जघ्निवान्, जघन्नवान्, विविदिवान् । विविद्वान् । विबिशिवान् । विविश्वान् । ददृशिवान् । ददृश्वान् ||८३ ||
विल' इत्यनेन विल ती लाभे इत्यस्य ग्रहणम्, तेन ज्ञानार्थस्य विदक् ज्ञानें' इत्यस्य 'विविद्वान्' इत्येव भवति' सत्ताविचारणयोस्तु धात्वोरात्मनेपदित्वात् क्वसुरेव नास्ति । न च विद इत्युक्त ऽपि 'अदाद्यनदाद्योरनदादेरेव इति न्यायात् लाभार्थस्यैव ग्रहणं भविष्यति, संत्ताविचारणार्थयोस्तु अनदादित्वेऽप्यात्मनेपदित्वात् क्वसोरसम्भव इति वाच्यं 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायात् तुदादे: 'विद्लृ ती लाभे' इत्यस्य ग्रहणासम्भवात् । वस्तुतस्तु उभौ एतौ न्यायौ परस्परविरोधिनौ नैवाऽत्र प्रवर्तेते तस्मात् येन प्रकारेण निर्विशङ्क लाभार्थस्य ग्रहणमुपपद्यते स प्रकार ः कर्तव्य इति लृकारोऽनुबन्धः कृतः इति । यद्वा न च तुदादिना विशिना साहचर्यात् लाभार्थस्यैव ग्रहणं भविष्यति किं लृकारकरणेनेति वाच्यम् यथा विशिना साहचर्यं तथा हन्तिनाऽपि साहचर्यशङ्का स्यात्ततश्चादादेरेव ग्रहणं स्यादिति । जग्मिवानिति - ' गमहन० |४| २|४४ | सूत्रादुपान्त्यलो':, मोनो म्वोश्च | २|१|६७ | सूत्रात् मस्य नः । जघ्निवानिति – 'अङ हिन० |४|१|३४| सूखात् हो घः ॥ ८३ ॥
सिचोऽः |४|४|८४ |
अजे: सिथ आदिरिट् स्यात् | आञ्जीत् ॥ ८४ ॥
भजो व्यक्तिम्रक्षणगतिषु । सुवादोदित्वाद् विकल्पे प्राप्ते नित्यार्थमिक्म् ||८४||