________________
( २४१ )
हषः केशलोमविस्मयप्रतिघाते ।४।४।७६। हषः केशाद्यर्तेषु क्तयोरादिरिट् वा न स्यात् । हृष्टाः. हृषिताः केशाः। हृष्ट, हृषितं लोमभिः । हृष्टो हृहितश्चैत्रः । हृष्टा हृषिता दन्ताः ॥७६॥ केशलोमकर्तृ का ऊद्धृषणादिका क्रिया केशलोमशब्देनोच्यते । उद्घषणम् =रोमाञ्च इति अभिधानचिन्तामणिः, का० २ श्लोक २०६) हष्टा, हृषिताः-केशाः रोमाञ्चिता इत्यर्थः । हृष्टो हृषितश्चत्रः-विस्मित इत्यर्थः । हृष्टा हुषिता दन्ताः प्रतिहता इत्यर्थः । हृषच तुष्टी, हृषू अलीके वा ततः परः क्तः ।।७६।।
अपचितः ।४।४७७॥
अपाच्चायेः क्तान्तस्य इडभावः चिश्च निपात्यते वा । अपचितः। अपचायितः ॥७७॥ "चायग् पूजानिशामनणैः" अयं धातुह्यः न तु "चिंग्ट् चयने' इति चिनोतिरस्य पूजार्थत्वाभावात् । निपातनमेतत् ॥७७॥
सृजिदृशिस्कृस्वराऽत्वतस्तृनित्यानिटस्थवः ।४।४७८॥ सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्य थव आदिरिट वा न स्यात् । सस्रष्ठ, सजिथ । दद्रष्ठ, दशिथ । सञ्चस्क सब्यस्करिथ । ययाथ, ययिथ । पपक्थ, पेचिथ । तृनित्यानिट इति किम् ? ररन्धिथ, शिश्रयिथ । विहिततिशेषणं विम् ? चषिय ॥७॥