SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ( २४० ) णौ दान्तशान्तपूर्णदस्त स्पष्टच्छन्नज्ञप्तम् ।४।४।७४। दमादीनां णौ तान्तानामेते वा निपात्यन्ते । दान्तः, दमितः । शान्तः, शमितः । पूर्णः, पूरितः । दस्तः,दा सितः । स्पष्टः, स्पाशितः । छन्नः, छादितः ज्ञप्तः, ज्ञापितः ॥७४॥ दम्-दान्तः, दमितः, शम्-शान्तः, शमितः, पूरै--पूर्णः, पूरितः, एषु णिलुग निपात्यते । दासृ-दस्तः, दासितः । स्पश्-स्पष्टः, स्पाशितः । स्पशि। सौत्रो वा, स्पशन्तं प्रयुक्त णिग, स्पशिण ग्रहणे इति चुरादि ।' छद्-छन्नः छादितः एषु णि-इटलोपो, ह्रस्वश्च वा निपात्यन्ते । ज्ञप्तः ज्ञापितः इत्यत्र ‘मारणतोषण।४।२।३०। इत्यनेनाप्राप्तस्थले पि वा ह्रस्वत्वं निपात्यते ।।७४॥ श्वजपवमरूषत्वरसंघुषास्वनामः ।४।४।७५।' एभ्यः तयोराविरिट् वा न स्यात् । श्वस्तः, श्वसितः, विश्वस्तवान्, विश्वसितवान् । जप्तः, जप्तवान्, जपितः, जपितवान् । वान्तः, वान्तवान्, वमितः वमितवान् । रुष्टः, रुष्टान, रूषितः, रूषितवान् । तूंर्णः, तूर्णवान्, त्वरितः, त्वरितवान् । संघुष्टौ संघुषितौ दम्यौ, संघुष्टवान्, संघुषितवान् । आस्वान्ता, आस्व. नितः, आस्वान्तवान्, आस्वनितवान् । अभ्यान्तः, अभ्यान्तवान्, अभ्यमितः, अभ्यमितवान् ॥७॥ .. श्क्सक् प्राणने । कर्वेटत्वात् नित्यं प्रतिषेधै प्राप्ते वचनम् । तूर्ण इति त्वरधातोः 'मव्यवि० ।४।१।१०६। सूत्रादुपान्त्येन सह उट् । संवृषास्वनिभ्यां परत्वादयमेव विकल्प: न तु घुषेरबिशब्दे ।४।४।६८। 'क्षुब्ध०।४।४।७० सूत्राभ्यां नित्यमिपिनषेधः । तेनाविशब्दनेऽपि संपुष्टा रज्जुः, संघुषिता रज्जुरिति, मनसि वाच्यैऽपि आस्वान्त आस्वनितं मनः इत्येव भवति ॥७॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy