________________
( २३८ )
बाढं भृशम् । परिवृढः प्रभुः ॥७०॥ क्षभच संचलने, क्षभश् संचलने वा, कर्मण्येव क्तः क्षुभेमन्मथेऽर्थे तान्तस्य इडभावो निपात्यते । मथ्यते इति मन्थः, कर्मणि पत्र , क्तोऽपि क्षभे: कर्मण्येव । क्षुब्धः समुद्रः मथित इत्यर्थः, अन्तभूतण्यर्थत्वात् मथ्यमानः संक्षोभं गत इति वार्थः । मन्थनं वा मन्थः, शुन्धं वल्लवैः विलोडनं कृतमित्यर्थः । अथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूढया मन्थशब्दे-' नोच्यन्ते,तद्रव्याभिधाने क्षुब्धशब्दो मन्थपर्यायो भवति तदा संचलितो मन्थःइत्यर्थो भवति ।विपूर्वो रिभ्धातुः सौत्रःतस्य विरिब्ध इति निपातनम् स्वरो ध्वनिश्चेत् अथवा रेभृङ शब्दे इत्यस्य वा निपातनादिकारः । विरिभितं विरेभितमन्यत् । स्वनेर्धातोर्मनसि पर्याये स्वान्तमिति, अहन्पञ्चमस्य०।४।१।१०७ सूत्रादाकारः । विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । अन्यत्र स्वनितो मृदडः, स्वनितं मनसा घटित स्पृष्टमिति यावत्, ध्वनेः ध्वान्तमिति तमश्चेत्, तमः-पर्यायोः ध्वान्तशब्दः, अनालोकं गम्भीर तमो ध्वान्तमित्यन्ये । अन्यत्र ध्वनितं तमसा,ध्वनितो मृदङ्गः। लगेर्लग्नमिति सक्त चेत् । लगितमन्यत् । म्लेच्छेलिष्टमिति अस्पष्टं चेत् इत्त्वमपि निपातनातु, म्लेच्छितमन्यत् । फणेः फाण्टमिति अनायाससाध्यं चेत् यदश्रपितम पिष्टमुदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि तदेवमुच्यते । अग्निना तप्तं यदीषदुष्णं तत्काण्टमित्यन्ये । अन्ये त्वविद्यमानायासःपुरूषोऽन्यो वा सामान्येन फाण्टशब्देनमिधीयते । वाहेबर्बाढमिति भृशं चेत्, कियाविशेषणमेवैतत्स्वभावात् । वाहितमन्यत् । परिपूर्वस्य वृहे हेर्वा परिवृढ इति प्रभुश्चेतू, हकारनलोपे ढत्वे च निपातनम् । अन्यत्र परिवहितं, परिवृहितम् ॥७०॥
आदितः ।४।४७१। आदितो धातोः परयोः क्तयोरादिरिद् न स्यात् । मिन्नः। मिन्नवान् ॥७१॥ आदितो धातूना 'नवा भावारम्भे ।४।४।७२। सत्रेण भावारम्भे वेटत्वा