________________
( २३७ )
घुषेरविशब्दे ।४।४।६८॥
अविशब्दार्थात् घुषे परयोः क्तयोरादिरिट न स्यात् । घुष्टा रज्जुः, घुष्टवान् । अविशब्द इति किम् ? अवघुषितं वाक्यम् ॥६॥
अविशब्द:नानाशब्द:, प्रतिज्ञा वा। धुण्टा रज्जुः=संबद्धावयवेत्यर्थः । अवधषितं वाक्यम्-नाना शब्दितं प्रतिज्ञातं वा वाक्यं (ब्रते) इत्यर्थः। नन् धष. शब्दे इत्यस्यैवं विशब्दने जुरादित्वात् णिचि सत्यनेकस्वरत्वात्प्रतिषेधो न स्याद् अतः किं वर्जनेनेति चेत्सत्यम् अत एव विशब्दन प्रतिषेधात् ज्ञाप्यते धुष ण विशब्दने' इति धुर्विशब्दनार्थस्य चुरादिणिच् अनित्यः ॥६॥
बलिस्थूले दृढः ।४।४।६६। बलिनि स्थूले चार्थे दृहेदृ हेर्वा क्तान्तस्य दृढो निपात्यते । दृढः । बलिस्थूल इति किम् ? दृहितम् । दृहितम् ॥६६॥ दृढः-अत्र इडभावः, क्तस्य ढत्वम्, धातुसम्बन्धिनोर्हकारनकारयोर्लोपश्च सब निपातनाद् भवति ।।६।।
क्षुब्धविरिब्धस्वान्तध्वान्तलग्नमिष्टफाण्टबाढपरिवृतं मन्थस्वरमनस्तमः-सक्ताऽस्पष्टाऽनायासभृशप्रभौ
।४।४७०। - एते तान्ता मन्थादिष्वर्थेषु यथासंख्यमनिटो निपात्यन्ते । क्षुब्धः
समुद्रः । क्षुब्धं वल्लवै । विरिब्धः स्वरः। स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । म्लिष्टमस्पष्टम् । फाण्टमनायाससाध्यम् ।