________________
( २३६ )
वृत्त य॑न्ताम् क्ते वृत्तं ग्रन्थविषये निपात्यते । वृत्तो गुणश्छात्रण। ग्रन्थ इति किम् ? वर्तितं कुङ्क.मम् ॥६५॥ वृत्तः-वृत्, णिग्, क्तः, अत्र गुणाभावः, इडिनषेधः, णिग्लुक् च निपात्यते। गुणः-उपचाराद् गुणप्रकरणं गुणः, वृत्तः कोऽ थः पठितः इत्यर्थः । वृत्तेरन्तभूतण्यर्थस्यैतत् सिध्यति, वर्तेस्तु ग्रन्थविषये वर्तितमिति प्रयोगनिवृत्त्यर्थ . वचनम् ॥६५:
धृषशसः प्रगल्भे ।४।४।६६। आभ्यामपरयोः क्तयोरादिः प्रगल्भ एवार्थे इट् न स्यात् । धृष्टः, विशस्तः । प्रगल्भ इति किम् ? धषितः, विशसितः ॥६६॥ प्रगल्भो जितसभः, अविनीत, इत्यस्ये । धृष्टः, विशस्तः, प्रगल्भ इत्यर्थः । धषितः-पराभतः, विशसित:-हिंसित इत्यर्थः । त्रिधषात् प्रागल्भ्ये, शस् हिंसायाम् । धषेः 'आदितः ।४।४।७२। सत्रात् शसेरप्यूदित्त्वात् 'वेोऽपतः ।४।४।६२। सूत्रात् प्रतिषेधे सिद्ध नियमार्थं वचनम् । प्रगल्भ एव इति नियमः । न चादितां धातूनां 'नवा भावारम्भे ।४।४।७१। सूत्रेण वा इङिनषेधेऽन्न धृषेरुपादानं नित्यमिडभावार्थमिति वाच्यम् धृषेः भावारम्भे स्वभावात् प्रगल्भार्थानभिधानात् ।।६६।।
कषः कृच्छगहने ।४।४।६७।
अनयोरर्थयोः कषेः परयोः क्तयोरादिरिट न स्यात् । कष्टं दुःखम् । कष्टोऽग्निः । कष्टं वनं दुरवगाहम् । कृच्छ्रगहन इति किम् ? कषितं स्वर्णम् ॥६७।।
कृच्छशब्दात् यथा दुःखमुच्यते तथा अग्निचोरादिकं कारणमप्युच्यते यथाहोदाहरणं कष्टोऽग्निः । वषिष्यतीति कषोऽनिष्ट: ।५।३।३। सूत्रात् क्तः ।६७।