SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ( २३५ ) .वेटोऽ पतः ।४।४।६२॥ अपतो विकल्पितेटो धातोरेकस्वरात्परयोः क्तयोरदिरिट न स्यात् । रद्धः, रद्धवान् । अपत इति किम् ? पपितः ॥६२॥ वा इट् यस्माद् धातोः स वेट 'एकाथं चानेकं च ।३।१२२। सूत्रात् समासः 'रधौच' रद्धः, रद्धवान् । पतितः-सनि वेटत्वात्प्राप्ते प्रतिषेधः ॥६२॥ ------ सन्निवेदः।४।४।६३॥ एभ्यः परादः क्तयोरदिरिट न स्यात् । समर्णः, समर्णवान् । न्यर्णः न्यर्णवान् । व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अदितः ॥६३॥ समर्णः समणवान्–'अर्द गातियाचनयोः', तक्तवतू ‘रदाद० ।४।२।६६। सूत्रेण धातुदकारस्य प्रत्ययतकारस्य च नकारः, 'रषवर्णान्नो० ।२।३।६३। सूत्रात् प्रकृतिनकारस्य णकारः, 'तवर्गस्य श्चवर्ग० ।१।३।६० सूत्रात क्तनकारस्य णकारः ॥६३।। अविदरेऽभः ।४।४।६४ . अमेः परादः परयोः क्तयोरविदूरेऽर्थे आदिरिट न स्यात् । अभ्यणः, अभ्यर्णवान् । अविदूर इति किम् ? अभ्यदितो दीनः शीतेन ॥६४॥ विदूरम्-अतिविप्रकृष्टम् ततोऽन्यदविदूरम् समीपमित्यर्थः । अभ्यर्णः समीप इत्यर्थः ॥६४।। वर्तेर्वतं ग्रन्थे ।४।४।६॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy