________________
( २३३ )
- एकस्वरादनुस्वारेतः ।४।४।५६।
एकस्वरादनुस्वारेतो धातोविहितस्य स्ताद्यशित आदिरिट न स्यात् । पाता । एकस्वराविति-अवधीत् ॥५६॥ पां पाके=पाता। वधः अकारान्तत्वादनेकस्वरी । इट: प्रत्ययस्यादिरवयवो भवत्यतः प्रत्ययः सेट तथाप्युपचाराद् धातुरपि सेट् कथ्यते ॥५६॥
ऋवर्ण-श्रि-ऊण्णुगः कितः ।४।४।५७। ऋवर्णान्ताद् धातोः श्रेरू|श्च एकस्वराद् विहितस्य कित आदिरिट न स्यात् । वृतः,तोवा, श्रितः ऊष्णुत्वा । एकस्वरादित्येव ? जागरितः । कित इति किम् ? वरिता ॥२७॥
उत्तरेणैव सिद्ध ऊर्ण ग्रहणमनेकस्वरार्थम् । विहितविशेषणत्वात् 'ती.' इत्यादाविरुरादेशे कृतेऽपि विषेधो भवति । गित्त्वात् यङ्लुपि इट् स्यादेव । ॥ ५७ ।।
उवर्गात् ।४।४।५।
· उवर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युतः, लूनः । कित इत्येव-यविता, लविता ॥८॥
युक् मिश्रणे अदादिः ॥५॥
ग्रहगुहश्च सनः ।४।४।५।
आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट् न स्यात् । जिघृ