SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( २३२ ) क्रमः ।४।४।५३। क्रमः परस्य स्ताशित आदिरिट स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव-प्रक्रस्यते ॥५३॥ प्रकंस्यते–'प्रोपादारम्भे ।३।३।५१। सूत्रादात्मनेपदम् ॥५३॥ .. . तुः ।४।४।५४॥ अनात्मनेविषयात्क्रमः परस्य तु स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मने इत्येव-प्रक्रन्ता ॥५४॥ तुः तृचस्तृनश्चेत्यर्थः । आत्मनेपदविषयश्चं क्रमिः कर्मव्यतिहारवृत्त्यादिषु प्रोपव्यापूर्वश्च आरम्भादिष भवति । तुः स्ताद्यशित इत्यत्र 'ऋतो डुर्' ।१।४।३७। सूत्रात् डुर्, व्यत्यये लुग्वा ।१।३।५६। सूत्रादस्य लुक । क्रमितेति 'क्रमोऽनुपसर्गात् ।३।३।४७ सूत्राद् विकल्पेनात्मने दविषय: तेन क्रन्तेत्यपि । प्रक्रन्तेति-'प्रोप्तादारम्भे' ।३।३।५१। सूत्रादात्मनेपदम् ॥५४॥ . न वृद्भयः ।४।४।५। वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिट न स्यात्, न चेदसावात्मनेपदनिमित्तम् । वय॑ति, विवृत्सति, स्यन्त्स्यति सिस्यन्स्यति ॥५५॥ वतूड्, स्यन्दौङ, वृधूङ, श्रधूङ, कृपोङ् एते पञ्च वृतादयः । पञ्चपरिग्रहार्थ सूत्रे बहुवचनम् । स्यान्दिकृपोरोदिल्लक्षणो विकल्पः परत्वादनेन बाध्यते, 'वृद्भयः स्यसनोः ।३।३।४५। 'कृपः श्वस्तन्याम् ।३।३।४६। सूत्राभ्यां स्ये सनि वतादयः, श्वस्तन्यां कृपिश्च अनात्मनेपदनिमित्तं विकल्पेन भवति, विकल्पपक्षे तु इड् भवत्येव यथा वतिष्यते, सिस्यन्दिषते ॥५५॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy