________________
( २३१ )
कृत-चूत-नृत-च्छद-तृदोऽसिचः सादेर्वा ।४।४।५०।
एभ्यः परस्यासिचः सादेस्ताशितः आदिरिट् वा स्यात् । कर्त्यति, कतिष्यति । चिचुत्सति, चितिषति । नय॑ति, नत्तिष्यति । अच्छय॑त्, अर्दिष्यत् । तितृत्सति, तितदिषति । असिच इति किम् ? अचकीत् ॥५०॥ प्राप्ते विभाषेयम् । कृतत् छेछने, कृतैप वेष्टने वा। चूतैप हिंसाग्रन्थयोः, नृतत् नर्तने, ऊपी दीप्तिदेवनयोः, ऊतृ पी हिंसाऽनादरयोः इति तृद् ।
॥ ५० ॥
गमोऽनात्मने ।४।४।५१॥
गमः परस्य. स्ताद्यशितः सादेरिट स्यात् । न त्वात्मनेपदे । गमिष्यति, अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगसीष्ट ॥५१॥ . गम 'इत्यादेशस्यानादेशस्य च ग्रहणमविशेषात् । अधिजिगमिषितेतिसनीङश्च ।४।४।२५। सूत्रण 'गमु' आदेशः । संगसोप्टेति-गम्लु गती इत्यस्य रूपम् ‘समो गमृच्छि० ।३।३।८४। सूत्रात्कर्तर्यात्मनेपदम् ॥५१॥
स्नोः ।४।४।५२॥ स्नोः परस्य स्ताद्यशितः अनात्मनेपदे आदिरिट् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव-प्रास्नोष्ट ॥५२॥ पृथग्योगात्सादेरिति नानुवर्तते अन्यथा स्नुगमोरिति कुर्यात् । स्नौतेरिट सिद्ध एव किन्तु आत्मनेपदे इड्निवृत्त्यर्थं वचनम्, एवमुत्तर-सूत्रेऽपि । प्रास्नोष्ट-अयम् ‘एकधातौ०।३।४।८६। मूत्रात्कर्मकर्तरि प्रयोगः ।।५२॥