SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( २३०. ) 'अशित्य०।४।३।७७। स्त्रात् आलक युधातोः 'ग्रहगुहश्च०।४।४।५९। सूत्रात् भ्रस्जभृगोस्तु अनुस्वारेत्त्वात्प्रतिषेधे प्राप्तेऽन्येषां च नित्यमिटि प्राप्ते . विकल्पोऽयम् ॥४७॥ ऋ-स्मि-पूङ-अज्ज-शौ-कृ.-ग-दृ-धृ-प्रच्छः ।४।४।४। एभ्यः परस्य सनः आदिरिट् स्यात् । अरिरिषति, सिस्मयिषति, पिपविषते, अजिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, आदिदरिषते, आदिधरिषते । पिपृच्छिषति ॥४८॥ पृथग्योगाद् नवेति निवृत्तम् । ऋस्मिपूङ्दधृप्रच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् । प्रच्छसहचरिताः कृ.गृ.धृ इत्येते धातवस्तौदादिका ग्राह्याः तेन कृणातेः चिकीर्षति, चिकरीषति । गृणातेः जिगीषति, जिगरिषति, जिगरीषति, धरतेः दिधीर्षतीति प्रयोगा भवन्ति । पूडित्यनुबन्धनिर्देशात् 'पूङ् पवने' इत्ययं ग्राह्यः । पूगस्तु ‘ग्रहगुहश्च सनः ।४।४।५९। सूत्रादिडभावे पुपूषति, पुपूषते इति । अशौटि व्याप्तौ अश्नातेस्तु इडस्त्येव । कृ.तु विक्षेपे चिकरीषति 'व तो नवा०।४।४।३५। सूत्राद् दीर्घस्य विकल्पपक्षे चिकारिपतीत्यपि । गृणाते:-जिगरीषति, दीर्घविकल्पपक्षे जिगरिषति । दृङत् आदरे, धृङत् स्थाने-आदिदरिषते, आदिधरिषते, अत्र सन्यस्य ।४।१।५६। सूत्रात् द्वित्वे पूर्वस्येत्त्वम् । पिपच्छिषति–'रुदविद०।४।३।३२। सूत्रात् सन् किद्वत् ऋस्मि० ।४।४।४८। सूत्रात् सन आदिरिट् ।४।। हनृतः स्यस्य ।४।४।४६॥ हन्तेः ऋदन्ताच्च परस्य स्यस्यादिरिट् स्यात् । हनिष्यति, करिष्यति ॥४६॥ तकारनिर्देशादर्तेरेव ग्रहणं न भवति ।।४।।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy