________________
( २२८
)
क्लिष्ट्वा । क्लिशितः, क्लिशितवान्, क्लिशित्वा ॥४५॥ पूड पवनें-'सूत्रे कारनिर्देशः पूग्श् पवने इत्यस्य निवृत्त्यर्यः तस्य हि 'न डीङ् ।४।३।२७। सूत्रे कित्त्वप्रतिषेधाभावात् 'पुवितः' इत्यनिष्टं रूपं प्रसज्येत, स्थिते तु अस्मिन् 'उवर्णात्' ।४।४।५८। सूत्रादिडभावे "पूत' इत्येव । 'क्लिशिभ्यः' इत्यत्र बहुवचनं 'क्लिशिच उपतापे, क्लिशौच विबाधने द्वयोरपि ग्रहणार्थं कृतम् । पूङः ‘उवर्णात् ।४।४।५६। सूत्रात् नित्यं निषेधे प्राप्त क्लिश्यते नित्यमिटि प्राप्ते क्लिश्नातेश्चौदित्वात क्त्वायां विकल्पे सिद्धऽपि क्तयोनित्यं निषेधे प्राप्ते विकल्पार्थं वचनम् ॥४५॥
सहलुभेच्छ-रुष-रिषस्तादे : ।४।४।४६। एभ्यः परस्य स्ताद्यशितस्तादेरिट वा स्यात् । सोढा, सहिता। लोब्धा, लोभिता । एष्टा, एषिता । रोष्टा, रोषिता । रेष्टुम्, रेषितुम् ॥४६॥ इच्छेति निर्देशात् इषत् इच्छायामित्यस्य ग्रहणम्, इषच् गती, इषश् आभीक्ष्ण्ये इत्यनयोस्तु नित्यमेवेट् । रुषच रोषे, रुष हिंसायाम् इति द्वयोरपि ग्रहणमविशेषात् ॥४६॥
इव्-ऋध-भस्ज-दम्भ-श्रि-यु-ऊण्णु-भर-ज्ञपिसनि-तनि-पति-वृ-ऋद्-दरिद्रः सनः।४।४।४७। इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य सन आदिरिट
वा स्यात् । दुवूषति, दिदेविषति । ईर्सति, अदिधिषति । विभक्षति, विजिषति । धिप्सति, धीप्सति, दिदम्भिवति । शिश्रीषति, शिश्रयिषति । युयूषति, यियविषति। प्रोणुनूषति, प्रोणुनविषति । बुभूषति, विभरिषति । जीप्सति, जिज्ञपयि. षति । सिषासति, सिसनिषति । तितंसति, तितनिषति ।