________________
( २२७ )
. क्षुधक्सस्तेषाम् | ४|४|१३|
आभ्यां परेर्षा क्तक्तवतुवत्वामादिरिट् स्यात् । क्षुधितः, क्षुधितवान्, क्षुधित्वा । उषितः, उषितवान्, ऊषित्वा ॥४३॥
क्षुधंच् ब्रुभुक्षायाम् । वसं निवासे धातुरत्र गृह्यते न तु वसिक आच्छादनेऽस्येडस्त्येव । गणपाठानिर्देशात् यङ्लुपि यजदिवचेः किति । | ४|१७| सूत्रेण न य्वृत् ॥४३॥
लुभ्यञ्चैवमोहाचें ||४|४४ ॥
आभ्यां यथासंख्यं विमोहनपूजार्थाभ्यां परेषां क्तक्तवतुक्त्वामादिरिट स्यात् । विलुभितः, विलुभितवान्, लुभित्वा, अञ्चितः, अञ्चितवान्, अञ्चित्वा । विमोहाचं इतिकिम् ? लुब्धो जाल्मः, उदक्तं जलम् ॥४४॥
लुभे: 'सहलुभेच्छ० १४|४|४६ | संत्रेण विकल्पे, अञ्चेश्च 'ऊदितो वा' ४|४|३२| इति विकल्पे, उभयोश्च 'वेटोऽपतः | ४|४|६२ ॥ सूत्रेण
योनित्यं प्रतिषेधे प्राप्ते इदं सूत्रं कृतम् । विमोहः = विमोहनम्, आकुली - कर्णमित्यर्थः । अर्चा = पूजा | बिलुभित्तः = अनाकुलः - कृत इत्यर्थः । लुभित्वा - लुभच् गायें, अनाकुलमाकुलीकृत्येत्यर्थः । ' वौ व्यञ्जनादेः ० ४।३।२५। सूत्रात् सेट् क्त्वा विकल्पेन किद्वद्भवतीति विलोभित्वा इत्यपि रूप ज्ञेयम् । विमोहः इत्यत्र णिगन्ताद् वर्ण ० | ५|१|२८| मूत्रादत्प्रत्ययः
118811
पूक्लिशिभ्यो नवा ||४।४५।
पूः किल शिभ्यां च परेषां क्तक्तवतुक्त्वामादिरिड् वा स्यात् । पूतः पूतवान् पूत्वा । पवितः पवित्वा । विलष्टः, क्लिष्टवान्,
,