________________
( २२५ )
वृतः पपयोरात्मनेपदविषये सिजाशिषोरादिरिड वा स्यात् । प्रावृत । प्रावरिष्ट । अवृत । अवरीष्ट । आस्तीष्ट । आस्तरिष्ट । प्रावृषीष्ट । प्रावरिषीष्ट । वृषीष्ट । वरिषीष्ट । आस्तीर्षीष्ट । आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ॥३६॥ आशिषि तु परस्मैपदे यकारादित्वात्प्राप्तिरेब नास्ति । प्राप्ते विभाषेयम् । प्रावारोत्-अत्र नित्यमेवेट ।।३६।।
संयोगाद् ऋतः ।४।४।३७। धातोः संयोगात् परो य ऋत् तदन्तात्परयोरात्मनेपदविषय सिजाशिषोरादिरिट् वा स्यात् । अस्मरिषाताम् । अस्मृषाताम् । स्मरिषीष्ट । स्मृषीष्ट । संयोगादिति किम् ? अकृत ॥३७॥ 'स्कृच्छ तोऽकि ।४।३।८। सो स्कृगो ग्रहणात् स्सटसंयोगो न गृह्यते तेन समस्कृत, संस्कृषीष्टेत्यत्र इट न भवति ॥३०॥
धूगौदितः ।४।४।३८॥ धूग औदितश्च परस्य स्ताद्यशित आदिरिट् वा स्यात् । धोता । धविता । रद्धा । रधिता ॥३८॥ पृथग्योगात् 'सिजाशिषोरात्मने' इति निवृत्तम् । अत्र धूगिति गकारनिर्देशात् 'धूग्श् कम्पने' इत्ययं धातुर्मू ह्यते न तु धूत् विधूनने इति । तुदादिधूधातोनित्यमिट् भवति । धूगः ‘उवर्णात् ।४।४।५८ इति कित इट्प्रतिषेधोऽस्ति । रधौच हिंसासंराद्धयोरयमौदित् ।।३८।।
निष्कुषः ।४।४।३६॥
निष्पूर्वात् - कुषः परस्य स्ताद्यशितः आदिरिड्वा स्यात् ।