________________
( २२४ )
दिति 'तिककृती नाम्नि ।५।१७ सूत्रादाशिषि तिकि शान्तिरित्यत्र न भवति ॥३३॥
गृह्वोऽपरोक्षायां दीर्घः।४।४।३४। ग्रहों विहित इट्, तस्य दीर्घः स्यात्। न तु परोक्षायाम् । ग्रहीता । अपरोक्षायामिति किम् ? जगृहिव ॥३४॥ विहितविशेषत्वेन यङन्ताद् विहितस्य न भवति । ग्रहीता-'स्ताद्य० । ।४।४।३३। सूत्रादिट । लुप्ततिन्निर्देशाद् यङ्लुपि न दीर्घः ॥३४॥
वृतो नवाऽनाशी:-सिच्परस्मै च ।४।४।३५॥ वृभ्याम् दन्तेभ्यश्च परस्येटो दीर्घो वा स्तात्, न,तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे । प्रावरीता, प्रावरिता। वरीता, वरिता। तितरीषति । तितरिषति रोक्षाऽऽदिवर्जनं किम् ?। वरिथ तेरिथ । प्रावरिषीप्ट । आस्तरिषीष्ट । प्रावारिषुः । अस्तारिषुः ॥३५॥ सिच्परस्मै–सिचः परस्मैपदमिति षष्ठीसमासः। परस्मैपदनिमित्तत्वेनोपचारात्सिपि परस्मैपदमुच्यते अतः सिच्च तत्परस्मैपदं चेति कर्मधारयसमासो वा । सप्तमीङिः, सूत्रत्वात् डिलोपः । वृभ्याम्-वृग्ट् वरणे, वृश् सम्भक्ती इत्याभ्यां धातुभ्यामित्यर्थः। ऋदित्यत्र तकारो वर्णनिर्देशार्थ अतः ऋ दन्तधार्तो हणमन्यथा तकाराभावे वृ इत्यनेन धातुना साहचर्यात् ऋश गतौ इत्यस्यैव ग्रहणं स्यात् । ववरिथ-ऋव ।४।४।१०। सूत्रादिट। प्रावारिषुः 'सिचि परस्मै० ।४।२।४४। सूत्राद् वृद्धिः ॥३५॥
इट सिजाशिवोरात्मने ।४।४।३६।