________________
( २२३ )
स्वरादेस्तासु ।४।४।३१॥ स्वरादेर्धातोरादेरद्यतन्यां कियातिपत्तिह्यस्तनीषु विषये वृद्धिः स्यात्, अमाङा । आटोत्, ऐषिष्यत्, औन्मत् । अमाडेत्येव ? मा सोऽटीत् ॥३१॥ आटोत्- अट्+इट+सिच् + ईत् । ऐषिष्यत-इष्+इट्+स्यात् । औज्झत-उद्झद् उत्सर्गे उज्झ्+श+त् ॥३१॥
स्ताद्यशितोऽत्रोणादेरिट ।४।४।३ । धातोः परस्य सादरतादेश्चाऽशितः आदिरिट् स्यात्, न तु त्रोणादेः । लविष्यति, लविता । स्यादीति किम् ? अशित इति किम् ? आस्से । अत्रोणादेरिति ? शस्त्रम्, वत्सः, हस्तः ॥३२॥ अत्रोणादेरिति-प्रत्ययस्य उणादेश्चेट न भवति । शसू हिंसायाम्, शसत्यनेनेति शस्त्रम् 'नीदावशसू० ।५।२।८८ सूत्रात् त्रट । वत्सः, हस्तः इत्यत्रोणादिप्रत्ययः ।।३२॥
तेहादिभ्यः ।४।४।३३। एभ्य एव परस्य स्ताद्यशितः तेरादिरिट् स्यात् । निगृहीतिः, अपस्निहितिः। ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥ तेरिति सामान्येन क्तेः तिको वा ग्रहणम् । बहुवचवमाकृतिगणार्थम् । निग्रहणं निगृहीतिः, "स्त्रियां क्तिः ।५।३।६१ सूत्रात् क्तिः ‘ग्रहवश्च० ।४।१।८४ सूत्रात् य्वृतु । 'ष्णिहोच प्रीतो' अपस्नेहनम् =अपस्निहितः। तेरेव ग्रहादिभ्यः' इति विपरीतनियमो न भवति, उत्तरसूत्रो ग्रहे परोक्षायामिटो दीर्घनिषेधात् । 'सिद्धे सत्यारम्भो नियमार्थः इति न्यायात् शम्या