________________
( २२२ )
हस्तन्यामद्यतनीक्रियातिपत्त्योश्च विषये धातोरादिरट स्यात, न तु माङ्योगे । अयात्,अयासीत्, अयास्यन् । अमाङति किम् ? . मा स्मकार्षीत् । धातोरिति किम् ? प्रायाः ॥२६॥ अटो धात्ववयवत्वात् प्रण्यमिमीतेत्यादौ णत्वं सिद्धम्। अयासीदिति विषयविज्ञानात् प्रत्ययव्यवधानेऽप्यड्, परविज्ञाने हि 'अहन्' इत्यादावेव स्यात् । मा स्मेति-स्मेत्यव्ययं भतेऽर्थे, पादपूरगार्थे वा । प्रायाः-प्रकर्षण त्वमगच्छ.. इत्यर्थः, धातोरिति भणनात् प्रौपसर्गस्यादावड् न भवति ॥२६॥
एत्यस्ते द्धिः ।४।४।३०। इणिकोरस्तेश्चाऽऽदेह्य स्तन्यां विषये वृद्धिः, स्यात्, न तु माङा । आयन, अध्यायन, आस्ताम् । अमात्येव ? मा स्म ते यन् ॥३०॥
पूर्वसूत्रे प्रथमान्तम् ‘आदि' इति पदम् अत्र सूत्रे षष्ठयन्ततया परिणम्यते 'अर्थवशाद् विभक्तिविपरिणामः' इति न्यायात् । आयन् इत्यत्र च ह्विणोरप्विति व्यौ ।४।३।१५। सूत्रेण यत्वे कुते 'आस्ताम्' इत्यत्र च श्वास्त्योलक् ।४।२।९० सूत्रेण अस्तेरकारलोपे सति स्वरादित्वाभावात् 'स्वरादेस्तासु ।४।३१ सूत्रेण वृद्धिर्न प्राप्नोति इति एतत्सूत्र कृतम् । ननु विषयविज्ञानात् परत्वाद् वा 'स्वरादेतासु ।४।४।३१ सूत्रेण पागेत्र वृद्धी कृतायां कुती यत्वाकारयोः प्राप्तिरिति चेत्सत्यमिदमेव सूत्रं ज्ञापकं "कृतेऽन्यस्मिन् धातुप्रत्ययकार्य पश्चाद् वृद्धिस्तद्बाध्योऽट च" इति न्यायस्य । तेन ऐयरुः, अध्ययत' इत्यादी इयादेशे कृते पश्चाद् वृद्धिः सिद्धा, अन्यथा 'आररुः, अध्यायत' इति रूपं स्यात् । अचीकरदित्यादौ च दीर्घत्वं सिद्धमन्यथा अटि कृते हि स्वरादित्वात् दी? न स्यात् । यत्त्वाकारलोपापवादोऽयम् "एत्यस्तेर्व द्धिः।४।४।३०। इति योगः । 'हिणोरप्विति० ।४।३। ५॥ सत्रेण नित्यं यन्वे प्राप्ते 'इको वा' ।४।३।१६ सूत्राद् वा यत्त्वे कर्तव्ये बाधकमिदं यत्वाभावपक्षे तु स्वरादित्वादुत्तरेण वृद्धौ कृतायाम् ‘अध्ययम्' इत्यपि भवति । मा स्म ते यन्निति–'ह्विणोरप्विति० ।४।३।१५। सूत्रे यकारेऽन्प्रत्यये माङ्-योगे वृद्ध्यभावे च यन्निति ॥३०॥