________________
( २२१ )
मौ सन्-डे वा ।४।१।२७।
सन्डे परे णौ इडो गा वा स्यात् अधिजिगापयिषति, अध्यापिपयिषति, अध्यजीगपत्, अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७॥ अधिजिगापयिषति-इङ्क अध्ययने अधीयानं प्रयुक्त इति णिग्, ‘णी क्री-जीड: ।४।२।१०। सूत्रेण आकारः, ‘अतिरी०।४।२।२१। सूत्रेण प्वागमः, आत्त्वप्वागमो भयोरप्यस्यापवादत्वादप्रबृत्तौ पूर्व गादेशः, पश्चात् पोन्तः, अथवा इङ: स्थाने 'णी क्रीजीङः ।४।२।१०। सूत्रादाकारः, तदनन्तरं 'अति. ।४।२।२१। सूत्रात् पोऽन्त, ततः आप्स्थाने 'णी सन्-डे वा ।४।४।२७। सूत्राद् गादेशः, ‘यावत् सम्भवस्तावद्विधिः' इति न्यायेन पुनः पोऽन्तः क्रियते ततः अध्यापयितुमिच्छतीति सन् ‘गाप्' इत्यस्य द्वित्वम्, इट्, णिगो गुणः । अध्यापिपयिषति-अत्र 'स्वगदेद्वितीयः ।४।१।४। सूत्रण 'पि' इत्यस्य द्वित्वम्, इट, गुणश्च । अध्यजीगपत् अध्यापिपत्-अत्र ‘णिश्रिद्र । ।३।४।५८। सूत्रेण ङप्रत्ययः, 'उपान्त्यस्या० ।४।२।३५। सूत्रात् ह्रस्वः, द्वित्वम्, 'असमानलोपे० ।।१।६३। सूत्रात् पूर्वस्येत्त्वम्, 'लघोर्दीर्घो० ।४।१।६४। सूत्रादीत्त्वम् । अधिजिगांसते-अत्र 'स्वरहन०।४।१।१०४। सूत्राद् दीर्घत्वम् । अध्यापयति---अत्र शब्प्रत्ययः ।।२७।।
वाद्यतनी-क्रिया पत्योर्गीङ ।४।४।२८। • अनयोरिङो गीङ् वा स्यात् । अध्यगीष्ट, अध्यैष्ट । अध्यमोष्यत,
अध्यषत ॥२८॥ ङकारो गुणानिषेधार्थः । न च विधानसामर्थ्यादेव गुणो न भविष्यतीति वाच्यं तहि 'अध्यगायि' इत्यत्र बुद्धिरपि न स्यात् । अध्यगोष्ट-अन्तरङ्गत्वात्सिचः प्रागेव 'ईर्व्यञ्जने० ।४।३।६७। सूत्रादीकारः । अध्यष्ट'स्वरादेस्तास् ।४।४।३१। स्त्रात् वृद्धि ॥२८।।
अडधातोरादिह्य स्तन्या चाऽमाङा ।४।४।२६।