________________
( २२० )
-
णावज्ञाने गमु ।४।४।४।
इणिकोरज्ञानार्थयोो गमुः स्यात् । गमयति, अधिगमयति । मशान इति किम् ? अर्थान् प्रत्याययति ॥२४॥ अत्र सूत्रे 'पौ' इत्यत्र विषयसप्तमी व्याख्येया, विषयव्याख्यानबलात् 'अजीगमत्' इति सिद्धम् अन्यथा णौ परे गमादेशे कृते ‘णौ यत्कृतं तत्सवः । स्थानिवत्' इति इण इकारस्यैव द्वित्वं स्यात्, न तु गमः । गमयति-इण् एति कश्चित्, तमन्यः प्रयुक्त इति विस्तरेण वाक्यम्, यन्तं प्रयुक्त इति संक्षेपेण । प्रत्यायति-इक स्मरणे, प्रतियन्तं प्रयुक्त इति णिग् 'नामिनोऽ कलिहलेः ।४।३।५१। सूत्राद् वृद्धि: ऐ:, एदैतोऽयाय, ।१।२।२३। सूत्रात् आय। धात्वन्तरेणैव सिद्ध णाविको ज्ञानादन्यत्रेणश्च रूपान्तरनिबृत्त्यर्थं वचनम् । अज्ञान इति इणो विशेषणं नेकोऽमंभवात् ॥२४॥
सनि इडश्च ।४।४।२५॥ इङ इणिकोश्चाज्ञानार्थयोः सनि गमुः स्यात् । अधि जिगार ते, जिगमिषति ग्रामम्, मातुरधि जिगमिषति ॥२५॥ अज्ञान इति इणो विशेषम्, न इकिङोरसम्भावात् । इङ् इत्यस्य अधि'जिगांसते 'प्राग्वत् ।३।३।७० सूत्रादात्मनेपदम् । इण् अधिजिगमिषति ग्रामम् । इक-मातुरधिजिगमिषति ‘स्मत्य० ।२।२।११। सूत्रात् वा 'कमत्वम् ॥२५॥
गाः परोक्षायाम् ।४।४।२६।
इङः परोक्षाविषये गाः स्यात् । अधिजगे ॥२६॥ विषयनिर्देश: किम् ? आदेशे सति द्विवचनं यथा स्यात्, तेन प्राक्तु स्वरे स्वरविधेरिति नोपतिष्ठते अधिजगे-अत्र परोक्षाया एप्रत्ययः ॥२६॥ .