________________
( २१६ )
विति किम् ? घानिषीष्ट ॥ २१ ॥
परोक्षानिवृत्तौ तत्सम्बद्ध वेति निबृत्तम । वध इत्यकारान्त आदेशः । वध्याद् - अत्र सूत्रे विषयविज्ञानात् पूर्वमेवादेशे 'अतः | ४ | ३|२| सूत्रादकारलोपः सिद्धः, अन्यथा अतः | ४ | ३ |८२ सूत्रेऽपि विहितव्याख्यानात् लोगो न स्यात् । घानिषीष्ट - हन, आशीः सिष्ट, स्वरग्रहदृश० |३|४|६६ सूत्रेण त्रिट् 'त्रित्रि घन् |४|३|१०१ सूत्रात् घन् आदेशः, ञ्णिति' | ४ | ३ |४० सूत्रात् वृद्धिः ||२१||
1
अद्यतन्यां वा त्वात्मने ४।४।२२।
अद्यतन्यां विषये हनो वधः स्यात्, आत्मनेपदे तु वा । अवधीत्, अवधिष्ट, आहत ॥२२॥
अवधीदित्यत्रकारलोपस्य स्थानिवद् - भावेन 'व्यञ्जनादेव० | ४ | ३ | ४७| सूत्रेण वृद्धिर्न भवति । इट् + सिच् + इत् 'इट ईति | ४ | ३ |७१ | सूत्रात् सिज्लौपः । विषयव्याख्यानं विनाऽ वधीदित्यत्र 'एकस्वरा० | ४|४|५६ सूत्रेण विहितव्याख्यानादिट् न स्यात् । विषयव्याख्याने तु स्थानिवद्भावेनानुस्वारेवेऽपि अनेकस्वरत्वादिप्रतिषेधो न भवति । आहत 'हनः सिच् । ४ ३ ३८ | सूत्रात् सिच् विद्वद् भवति, 'यमिरमि० । ४ २ ५५ | सूत्रात् लोपः 'धुहम्वाल्लु० | ४ | ३ |७० | सूत्रात् सिज्लोपः ॥ २२॥
इण्-इकोर्वा । ४।४।२३।
इणिकोरतन्यां गाः स्यात् । अगात्, अध्यगात् ॥२२॥
अत्रापिविषयव्याख्या, तद्विनाऽगादित्यत्र तु सिचो लुप् स्यात् न त्वगायि इत्यत्र त्रिचा व्यवधानात् । अध्यगात् - इक्धातोः प्रयोगः, अधिनाऽवश्यं - भावी योगः ||२३||