________________
( २१८ )
परोक्षायां नवा | ४|४|१८|
अदेः परोक्षायां घस्ल. रादेशो वा स्यात् । जक्षुः, आदुः ॥ १८ ॥ घस्यदिभ्यामेव सिद्ध विकल्पवचनं घसेरसर्वविषय-ज्ञापनार्थंग, तेन घस्ता, घस्मर इत्यादावेव घसेः प्रयोगो भवति ||१८||
वेर्वय् ॥४|४|१८६ ।
वेगः परोक्षायां वय् वा स्यात् । ऊयुः, ववुः ॥१८॥
ऊयुरिति - 'यजादिवश्० |४|१/७२ सूत्रात् य्वदुकारः न वयो य् |४|१|७३ ॥ सूत्रेण यकारस्य न वृत् । ववुरिति- 'अविति वा |४| २|७५ सूत्रातु न वृत् विकल्पनात् ||१८||
ऋः शू -दृ-प्रः । ४|४|१०|
एष परोक्षायामृर्वा स्यात् । विशश्रतुः । विशशरतुः । विदद्रतुः । विददरतुः । निपप्रतुः । निपपरतुः ||२०||
न च "विशशरतुः, विददरतुः निपपरतु' एते प्रयोगाः शृणोत्यादिधातुभिः, 'स्कृच्छतोऽकि परोक्षायाम् | ४ | ३ |८ सूत्रेण गुणे कृते सेस्त्यन्ति, विशश्रतुः, विदद्रतुः, निपतुः' इति च प्रयोगाः 'श्रां' पाके, द्रांक कुत्सितगतौ, प्रांक पूरणे' इति धातुभिरेव भविष्यन्ति किमनेन सूत्रेणेति वाच्यं क्वसौ विशगृवान्, विशीर्णवान् इत्यादिप्रयोगाणामसिद्ध ेः । वि + शृ 'ओष्ठ्यादुर् |४|४|११८ | सूत्राद् उर् 'पदान्ते' | २|१|६४ | सूत्राद् दीर्घ ऊर् ॥२०॥
हनो वध आशिष्यत्र | ४|४|२१|
आशीविषये हन्तेर्वधः स्यात् । न तु ञिटि । वध्यात् । अजा