________________
( २१७ )
* हीनः । तीत्येद-प्रहाय ॥१४॥ ककारो हानिवृत्त्यर्थः तेन ओहाङ्क, गती इत्यस्य ‘हात्वा' इति प्रयोगः । इ इत्येव सिद्ध हिकरणमुत्तरार्थम्, इकरणे ह्य त्तरत्र 'धितः' स्यात् । होनः-सूयत्याद्योदितः ।४।२।७। सूत्रेण तकारस्यः नादेशः ॥१४॥ . .
धागः ।४।४।१५॥ धागस्तादो किति हिः स्यात् । विहितः, हित्वा ॥१५॥ पृथग्योगात् क्त्वीति न सम्बध्यते । गकार: ट्धेनिवृत्त्यर्थः ।।१५।।
यपि चादो जग्ध् ।४।४।१६॥ तादौ किति यपि चादेर्जग्ध स्यात् । जग्धिः, प्रजग्ध्य ॥१६॥ एकापदाश्रयत्वेनान्तरङ्गत्वात् यबादेशात्प्रागेव जग्ध्यादेशे सिद्ध यन्ग्रहणमन्तरङ्गानपि विधीन्यबादेशो बाधते इति ज्ञापनार्थम तेन प्रशम्य प्रपृचयेत्यादौ 'अहन्पञ्चमस्य० ।४।१।१०७। 'अनुनासिके०।४।१।१०८। इत्यादिस्त्रैः दीर्घत्वशत्वादीनि कार्याणि न भवन्ति ॥१६॥
घस्ल सनद्यतनी-घाचलि ।४।४।१७। एष्वदेर्घस्ल : स्यात् । जिघत्सति, अघसत्, घासः, प्रात्तीति प्रघसः, प्रादनं प्रघसः ॥१७॥ घस्लु अदने इत्यनेनैव सिद्धऽदेः सन्नादिषु रूपान्तर-निवृत्त्यर्थं वननम्, लकारः 'लदिद् ।३।४।६३। सूत्रादर्थश्च । अत्तुमिच्छति=जिघत्सति । अघसत्-'लदिद्० ।३।४।६४। सूत्रादङ् । घासः इत्यत्र घत्र । प्रात्तीति प्रघसः अत्र जच् । प्रादनं प्रघसः-अत्र ‘भूयदोऽल् ।५।३।२३। सूत्रादल ॥१७॥