________________
( २१६ )
स्थितवान् ॥११॥ छतेर्द द्वावस्य शेषाणामीत्त्वस्यापवादः । 'मामादाग्रहणेष्वविशेषः' न्यायेन सूत्रे माशब्देन 'मांक माने, मांङ्क मानशब्दयोः, मेङ् प्रतिदाने' इति त्रयोऽप्यन ज्ञेयाः अत एव 'लक्षणप्रतिप्रदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' निरनुबन्धग्रहणे न सानुबन्धकस्य इति न्याययोरत्र बाधः, 'दो. सो इति.. सामान्यनिर्देशश्च देवादिकयोरेव परिग्रहार्थ ॥११॥: ..
छाशोर्वा ।४।४।१२।। छाशोस्तादौ किति इर्वा स्यात् । अवच्छितः, अवच्छातः । निशितः, निशातः ॥१२॥ .. श्यतिशिनोत्योरपि रूपद्वयसिद्धौ श्यतेविकल्पवचनं तं नमादि० १३।१।१०५॥ सूत्रेण समासार्थम्, अन्यथा धातुभेदात्प्रकृति-भेदे समासो न.. स्यात् ॥१२॥
शो व्रते ।४।४।१३।
श्यतेः व्रते-व्रतविषये प्रयोगे नित्यमिः स्यात् । संशितं व्रतम्, संशितः साधुः ॥१३॥
नित्यायं वचनं तेन व्रतविषये संशात इति न भवति । संशितं व्रतम् = असिधारातीक्ष्णं व्रतमित्यर्थः । संशितः साधु-व्रते यत्नवानित्यर्थः । संशितशब्दः अन्यत्र संशयरूपेऽर्थेऽपि वर्तते इति व्रतमिति विशेषणं न दुष्यति ॥१३॥
हाको हिः क्त्वि ।४।४।१५ हाकस्तादौ किति क्त्वायां हिः स्यात् । हित्वा । क्त्वीति किम् ?