________________
( २१५
)
‘स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४।६। स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति तो नित्यं स्यात् । प्रत्तः, परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीतः ॥६॥ पृथग्योगाद् वेति निवृत्तम् । प्रदातुमारब्धवान् ‘आरम्भे' ।५।१।१०। सूत्रेण
प्रदीयते स्मेति वा क्त प्रत्तः, 'स्वरादुपसर्गाद्दस्ति कित्यध: ।४।४।६। सूत्रात् · दास्थाने 'त' आदेशः, 'धुटो धुटि स्वे वा ।।३।४८॥ सूत्रात् तकारत्रयमध्यातू मध्यमतकारस्य विकल्पेन लुक्, लुगभावे प्रत्तः इत्यपि । परीस्विमम्-इत्यत्र परि+दा, परिदानेन निर्वृत्तम् परित्त्रिमम्, 'वितस्त्रिमा० ।५।३।८४। सूत्रात् त्रिमक् । प्रदाताः वोहयः-अत्र दांवक् लवने धातुः, अस्य दासंज्ञाभावान्न भवति । निधीत इति–अत्र धेधातुज्ञेयः न तु धाग्धातुः । धाग्धातोस्तु 'धागः ।४।४।१५। सूत्रात् हिरादेशः स्यात् । 'निधीत' इत्यत्र 'ईर्व्यञ्जनेऽयपि ।४।३।६७। सूत्रादीकारः। 'दो-सोमा-स्थ इ: ।४।४।११। इत्यस्य परत्वेपि 'स्वरादु० ।४।४।६। इति विशेषविधानबलात् द्यतेरपि उपासर्गपूर्वकस्य त्तादेश एव भवति ॥६॥
दत् ।४।४।१०। अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः दत्तिः । अध इत्येवधीतः ॥१०॥ द्यतेः परत्वादित्त्वम् ॥१०॥
दो-सो-मा-स्थः ।४।४।११। एषां तादौ किति इ: स्यात् । निर्दितः, सित्वा, मितिः,