________________
( २१४ )
'यजसृज० ।२।१।८७। सूत्रात जस्य ष् । लुप्ततिनिर्देशो यङ्लुब्निवृत्त्यर्थः । लुप्ततिन्निर्देशरूपानुकरणे ‘सस्य शषौ ।१।३।६१। सूत्रात् सस्य शत्वे, 'तृतीयस्तृतीयचतुर्थे । १।३।४९। 'ग्रहबश्च०।४।१।८४। सूत्रात् य्वृत् ॥६॥
प्राद् दागस्तआरम्भे त ।४।४७।
आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे तो वा स्यात् । प्रत्तः । प्रदत्तः । प्रादिति किम् ? परीत्तम् ।
दागः-डुदांग्क दाने इति एकस्यैव दागः स्थाने त्तादेशः, नान्येषां दासंज्ञकानामित्यर्थः । त्त इत्यत्र अकार उच्चारणार्थः । प्रत्त:--प्रपूर्वक-दा, दातुं प्रारब्धवान् प्रत्तः, 'आरम्भे ।५।१।१०। सत्रेण क्तः । सूत्रे द्वितकार: 'त्त' इत्यादेशः प्रक्रियालाघवाय अर्थात साघनिकाप्रयासोत्तारणाय कृतः अन्यथा, धात्वाकारस्य स्थाने त इत्यादेशे कृते 'अघोष प्रथमोऽशिटः ।१।३। सूत्रेण 'द्' इत्यस्य त् स्यात्तथासति इष्टं सेत्स्यति स्म । प्रदत्तः–'दत् ४।४।१०। सूत्रात् 'दत्' इत्यादेशः । परोत्तम्-परिदीयते स्म इति क्तः 'स्वरादु० ।४।४।६। सूत्रान्नित्यं तादेशः 'धुटो धुटि स्वे वा ।१।३।४८। सूत्रेण तकारत्रयमध्यात् मध्यमतकारस्य लुक्, 'दस्ति ।३।२।८८। सूत्रेण 'परि' इत्यत्र दीर्घ: । द्वितकारादेशः सर्वादेशार्थः । अन्यथा 'षष्ठ्याऽन्यस्य १७।४।१०६। सूत्रं प्रवर्तेत ॥७॥
नि-वि-सु-अनु-अवात् ।।४।। एभ्यः परस्य दागः क्ते त्तो वा स्यात् । नीत्तम्, निदत्तम्, वोत्तम्, विदत्तम् । सूत्तम्, सुदत्तम् । अनूदत्तम्, अनुदत्तम् । अवत्तम्, अवदत्तम् ॥८॥ उत्तरेण नित्यं त्तादेशे प्राप्ते विभाषेयम् नीत्तम्-'दस्ति ।३।२।८८1. सूत्रेण दीर्घः, एवमग्रेपि । निदत्तम्-'दत् ।४।४।१०। सूत्रेण ददादेशः ।।८॥ .