________________
* अथ चतुर्थाध्याये चतुर्थः पादः की
अस्तिब्रुवो वचाव-शिति ।४।४।१॥ अस्तिब्र वोर्यथासंख्यं भूवचौ स्याताम्, अशिति विषये । भव्यम्, अवोचत् । अशितोति किम् ? स्यात्, ब्रूते ॥१॥ अस्तीति निर्देशान् ‘असूच क्षेपणे,' इत्यस्यतेः, असी गत्यादानयोश्च इत्यसतेन भ्वादेशः । भव्यम्-अत्र विषयसप्तमीबलात् पूर्वमस्ते'. : इत्यादेशः, तदनन्तरं 'य एच्चातः' ।५।१।२८। सूत्रात् यप्रत्ययः सिद्धः । अन्यथा भव्यम्' इति न सिध्येत् । यद्वा 'भव्यगेय० ।५।१७। सूत्रात्कर्तरि निपातनम् । 'भू सत्तायाम्, वचंक् परिभाषणे' इत्येताभ्यां सिध्यति । किमस्तिब्रुवोर्भू बचादेशविधानम् ? सत्यम्-धात्वन्तरेणैव सिद्धेऽस्तिब्रुवोरशिति प्रयोगनिवृत्त्यर्थं वचनम् ब्रूगादेशस्य फलवत्यात्मनेपदार्थं च । अन्यथा वचं भाषणे इत्यस्य परमैपदित्वात्परस्मैपदमेव स्यात् ॥ कासामासेत्यादौ तु अनुप्रयोगे कृभ्वस्तीनां निर्देशात् अस्तेर्वादेशो न भवति, अन्यथा कृभ्वोरिति द्वयोरेवोपादानं कुर्यात् ।।१।
अघक्यबलच्यजेवौं ।४।४।२॥ अघजादावशिति विषये अजेवौं स्यात् । प्रवेयम् । अघक्यबलचीति किम् ? समाजः, समज्या, उदजः, अजः पशुः ॥२॥ अनुस्वारेत्करणमिडभावार्थम् । प्रवेयमित्यत्र-विषयविज्ञानात्प्रागेवादेशे यप्रत्ययः । समाजः (घत्र), समज्या=समजति अस्यामिति समज्या सभा 'समज० ५।३।९८। सत्रात्क्यप् । उदजः 'समुदोऽजः पशौ ।५।३।३०। सत्रादल । उदजः= पशूनां रणमित्यर्थः । अजतीति-अजः ॥२॥ .
त्रने वा ।४।४।३।