________________
( २११ )
वृषश्वान्मैथुने स्सोऽन्तः ।४।३।११४॥ आभ्यां मैथुनार्थाभ्यां क्यनि स्सान्तः स्यात् । वृषस्यति गौः, अश्वस्यति वडवा। जैथुन इति किम् ? वृषीयति, अश्वीयति ब्राह्मणी ॥११४॥ सूत्रे ‘स्स' इति द्विसकारनिर्देशः षत्वनिषेधार्थः, तेनोत्तरत्र दधिस्यति' इत्यत्र षत्वं न भवति । ननु ‘सर्पिष्ष्यति' इत्यत्रोत्तरेण सागमे तस्य षत्वं दृश्यते नत्कयम् ‘सस्य शषौ ।१।३।६१। सूत्राद् भवति ।।११४॥
अस् च लौल्ये ।४।३।११५॥ भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः स्सोऽस् चान्तः स्यात् । दधिस्यति, दध्यस्यति । लोल्य इति किम् ? क्षोरीयति दातुम् ॥११५॥ दधि भक्षितु--मिन्छति दधिस्यति, दध्यस्यति । अस्विधानमनकारान्तार्थम् । अकारान्तेषु हि 'लुगस्या० ।२।४।११२ सूत्रात् लुकि सति विशेषो नास्ति, अन्यस्तु लुचममन्यमानः क्षीरास्यति, इत्युदाहरति, तच्च न बहुसम्मतम् ।।११।।
___ "इति चतुर्थाध्याये तृतीय पादः" "हम भगवान का शासन बराबर बोले और आप समझो यह ही 'रचनात्मक कार्य है। आपको समझना नहीं और हमको वोलना नहीं यह 'ढोंगात्मक कार्य है। हम संस्था स्थापकर तुम्हारा पोषण करें यह हमारा धंधा नहीं है । साधु को पतित मत बनाओ।
प० पू० अनेकान्ताभासतिमिरतरणि, कलिकालकल्पतरु आचार्य देव श्री विजय रामचन्द्रसूरीश्वरजी महाराजा।