________________
। २१० )
ह्रस्वविधानात्पूर्वेण दीर्घत्वं न भवति । यदि 'दीर्घश्वि० ।४।३।१०। सत्रेण दीर्घः स्यात् तदा रिविधानं व्यर्थ स्यात् 'ऋतो रीः ।४।३।१०६। सूत्रेणैव सिद्धः । तुदादेः शः ।३।४।८१॥ अथवा 'कृगः शःच वा ।५।३।१०० इत्यर्थ । शो ज्ञयः ॥११०॥
ईश्च्वावर्णस्याऽनव्यस्य ।४।३।१११॥ अनव्ययस्यावर्णान्तस्य च्वावीः स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूता रात्रिः ॥१११॥ दीर्घत्वापवादो योगः ॥११॥
क्यनि ।४।३।११२। अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति, मालीयति॥११२॥ योगविभागः उत्तरार्थः । अनव्ययस्येति निवृत्तम् अव्ययात्क्यनोऽभावात् 'अमाव्ययात् क्यन् च ।३।४।११२। सूत्रात् ॥११२॥ .
क्षुत्तुगद्धेऽशनायोदन्यधनायम् ।४।३।११३। एष्वर्थेषु यथासंरव्यमशनादयः क्यन्नता निपात्यन्ते। अशनायति, उदन्यति, धनायति । क्षुदादाविति किम् ? अशनीयति, उदकीयति, धनीयति दातुम् ॥११३॥ अशनमिच्छति=अशनायति 'अमाव्ययात् क्यन् च । ३।४।२३। सूत्रात् क्यन्, क्षुधि गम्यमानायामशनशब्दस्य आत्वम् । उदकमिच्छति-तृषि गम्यमानायामुदकशब्दस्य 'उदन्' इत्यादेशः । गद्धे वाञ्छायां गम्यमाने धनशब्दस्य आत्त्वं निपात्यतेः धनमिच्छति=धनायति । धनीयति दातुमिति-अत्र दानबुद्धया (दातु) धनमिच्छतीति नात्र गृद्धिः ॥११३॥