________________
( २०६ )
उत्तरेण दीर्घत्वेऽनेन ह्रस्वः । ई इण इति ईकारप्रश्लेषात् एयात समेयात् इत्यत्र न भवति ॥१०७॥
दीर्घश्च्वियङ्यक्क्येषु च ।४।३।१०८। एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति, तोष्ट्रयते, मन्तूयति, दधीयति, भृशायते, लोहितायते, स्तूयते, ईयात् ॥१०॥ चिक्यानां ग्रहणादधातोरप्ययं विधिः । बहुवचनात् क्यशब्देन क्यन्क्यङ्क्यक्यानामविशेषेण ग्रहणमन्यथैकानुबन्धस्यैव क्यस्य ग्रहणं स्यात् । शुचीकरोति-व्यन्तस्य 'ऊर्याद्य० ।३।१।२ सूत्राद् गतिसंज्ञा, 'गतिः' ।१।।३६। सूत्राद् गतिसंज्ञमव्ययम्, 'अव्ययस्य।३।२।७।सूत्रात् सेलुप् । मन्तूयति धातोः कण्डवादेर्यक् ।३।४।८सूत्राद् यक् । दधीत्यत्र क्यन् । भृशायतेअत्र क्यङ् । लोहितायते-अत्र क्यङछ् । स्तूयते-अत्र क्यः । स्तूयात्-अत्र यादिराशीः ।।१०८॥ .
ऋतो री: ।४।३।१०६। च्च्यादौ परे ऋदन्तस्य ऋतः स्थाने रीः स्यात् । पित्रोस्यात्,
चेनीयते, मात्रीयते, पित्रीयते । ऋत इति किम् ? चेकीर्यते ... ॥१०॥
धातोरधातोरयं विधिः । चेकीर्यते-कृत् विक्षेपे ॥१०६।।
रिः शक्याशीयें ।४।३।११०॥ ऋदन्तस्यः धातोः ऋतः शे, क्ये, आशीर्ये च परे रिः स्यात्। व्याव्याप्रियते, क्रियते, ह्रियता ॥११०॥