________________
- ( २०७ )
.णिति घात् ।४।३।१००।
मिति णिति च परे हन्तेर्घात्स्यात् । घातः, घातयति ॥१०॥ हनं हिंसागत्योः ॥१०॥
जिणवि घन् ।४।३।१०१॥
औ गवि च परे हन्तेर्घन् स्यात् । अघानि, जघान ॥१०१।। 'अड़ें हिहनो० ।४।१।३४। सूत्रेणैव सिद्धे 'त्रिणवि घन् ।४।३।१०१। इति प्रकृतसूत्रे णवग्रहणं घातादेशबाधनार्थम् ॥१०॥
नशेर्नेश् वाङि ।४।३।१०२॥ - नशेरङि नेश वा स्यात् । अनेशत् अनशत् ॥१०॥ 'लदिद्युतादि० ।३।४।६४। सूत्रेण नशधातोः पुष्यादित्वादङ् ॥१०२।।
..
.
श्वयत्यसवचपतः श्वास्थवोचपप्तम् ।४।३।१०३।
एषामङि यथासंख्यं श्वादयः स्युः। अश्वत्, आस्थत्, अवोचत्, अपप्तत् ॥१०॥ ट्धे-श्वेर्वा ।३।४।५६। सूत्रादङि अश्वत् । श्वयतेस्तिनिर्देशो यङो लुपि निवृत्त्यर्थः । अवोचत्-वच ब्रूग वा । अपप्तत्-पप्लु गतौ 'लदियतादि० ।३।४।६४। सूत्रादङ् । अस्वच्पतां यङो लुपि मूलसदृशप्रयोगा एव ।।१०३॥
शोङ ए: शिति ।४।३।१०४॥