________________
( २०६ )
ईय॑जनेऽयपि ।३।३।६७। गादेर्यब्वर्जे विङत्याशिषि व्यञ्जनादावीः स्यात् । गीयते, जेगीयते, पोयते, स्थीयते, अवसीयते, दीयते, धीयते, मीयते, हीनः । व्यञ्जन इति किम् ? तस्थुः । अयपीति किम् ? प्रगाय । ॥ ९७ ॥
स्वरादी विङति परे 'इडत्पुसि० ।४।३।६४। सूत्रात् अन्तलोपविधानात् व्यञ्जनादी लब्धेऽपि 'ईर्व्यञ्जनेऽयपि ।४।३।१७। इत्यत्र व्यञ्जनग्रहणं साक्षाद् व्यञ्जनप्रतिपत्त्यर्थम् तेन विप्लुकि स्थनिवद्भावेनापि न भवतिशंस्थाः पुमान् । शं सुखं तत्र तिष्ठतीति 'शमो नाम्न्यः ।५।१।१३४। इत्यप्रत्ययापवादे 'स्थापा० ।५।१।१४२। इति के प्राप्तेऽसरूपत्वात्क्विा । शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके । होन:-'सूयत्याद्यो० ।४।२।७० स्त्रात् तो नः, सूत्रे हाक इति भणनात् हाङो न भवति ॥१७॥
धामोर्यङिः ।४।३।। ध्राध्मोर्यङि ई: स्यात् । जेघ्रीयते, देध्मीयते ॥६
यङो लोपे कृते 'घ्राध्मोर्य ङि' ।४।३।६८। इत्यनेन ईकारो न भवति । केचिद् यङो लुप्यपि इच्छन्ति ॥६॥
हनो नीर्वधे ।४।२।। हन्तेर्वधार्थस्य यङि घ्नीः स्यात् । जेनीयते । वध इति किम् ? गतौ-जङ्घन्यते ॥६६॥ दीर्घनिर्देशात् यङ्लुप्यपि नीरादेशः । यदि पूर्वसूत्रवद् यङयेव स्यात्तदा निरित्येव कुर्यात् “दीर्घश्च्चि० ।४।३।१०८। सूत्राद् दीर्घसिद्धेः । जंघन्यते'अ हि०।४।१।३४। सूज्ञात् हो घः ॥६६॥