________________
( २०५ )
विडत्यशिति स्वरे इटि इति पुसि च परे आदन्तस्य धातोलक स्यात्। पपु, अदधत्। पपिथ, व्यतिरे, अदुः॥१४॥ अक्ङि दर्थं शिदर्थं चेडादिग्रहणम् । अदधत्-'ट्धेश्वेर्वा । ३।४।५६। सूत्रात् ङ। व्यतिरे-रांक दाने, वर्तमाना ए । अदु:- दा, अद्यतनी अन् ।। १४ ।।
संयोगादेर्वा-शिष्यः ।४।३॥१५॥ धातोः संयोगादेशदन्तस्य विडत्याशिषि एव' स्यात् । ग्लेयात्, ग्लायात् । संयोगादेरिति किम् ? यायात् । क्ङितीत्येव ग्लासीष्ट ॥६५॥ अपच्छायादित्यत्र तु छकारस्य द्वित्वे सति लाक्षणिकत्वान्न भवति ।।१५।।
गापास्थासादामाहाक: ४।३।६६।
एषां ङित्याशिष्येः स्यात् । गेयात्, पेयात्, स्थयात्, अवसेयात्, देयात्, धेयात्, मेयात्, हेयात् ॥१६॥ - शब्दे (इति गा) न तु गाङ् गतौ आत्मनेपदित्वात्विङत्याशिषि असंभवात् । तथा गास्थामध्ये पाठात् भ्वादेरेव पं पा' इत्येतयोः पाशव्देन ग्रहणम् आदादिक-पांक रक्षणे इत्यस्य पायादित्येव । षोंच अन्तकर्मणि अथवा से क्षये उभावपि साशब्देन ग्राह्यौ। मैं इत्यस्य लाक्षणिकत्वान्नेच्छत्यन्ये । दासंज्ञकाः सर्वेऽपि ग्राह्याः । माशब्देन 'मांक माने, मांङ् मानशब्दयोः, मेंड् प्रतिदाने' इति त्रयोऽप्यत्र । ओहांक त्यागे इत्यस्यैव एत्वम्, न तु ओहांङक गती इत्यस्य, सूत्रे' हाक्' इति पाठात् । तथा गाङ–माङ --मेङां यङ्लुबन्तानामपि एत्वम्, अन्यथा गाङ्-माङ्-मेङामात्मनेपदित्वात्किदाशीन संभवति, यङो लुपि च परस्मैपदिन एते । हाक: ककारो यङो लपि एत्वनिषेधाय । शेषाणां गापास्थासादामानां यङो लुप्यपि एत्वं भवति ॥६६॥